SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७५ ( ७।४।६८) अलोपः । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ॥छ । [यादेः ] + डीरादिर्यस्याऽसौ ड्यादिस्तस्य । [गौणस्य ] गौण षष्ठी डस् । [ अक्विपः ] न क्विप् = अक्विप्, तस्य । ड्यादेगौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः ।।२।४।९५।। [तद्धितलुकि] तद्धितस्य लुक् = तद्धितलुक्, तस्मिन् । [ अगोणीसूच्योः ] गोणी च सूची च = गोणीसूच्यौ । न गोणीसूच्यौ गोणीसूच्यौ तयोः । [ सप्तकुमारः ] सप्तकुमार 'वयस्यनन्त्ये' (२।४।२१) डी । सप्तकुमार्यो देवता अस्य । 'देवता' (६।२।१०१ ) अण्प्र० । 'द्विगोरनपत्ये य-स्वरा-ऽऽदेर्लुबद्विः' (६।१।२४) अण्लोपः । अनेन डीनिवृत्तिः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [पञ्चधीवा ] 'डुधांग धारणे च' (११३९) धा । दधातीति । 'मन् वन्- क्वनिप्-विच्-क्वचित्' (५।१।१४७) वन्प्र० । 'ईर्व्यञ्जनेऽयपि ' ( ४ | ३ |९७) आ० ई० । ण- स्वरा-ऽघोषाद् वनो रश्च' (२।४।४) डीप्र० - न०-२० । पञ्चभिर्धीवरीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५० ) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' ( ६ । ४ । १४१ ) इकण्लोपः । अनेन डीनिवृत्तिः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहून ' (२।१।९१) नलोपः । [पञ्चेन्द्रः] पञ्चन्-इन्द्र । इन्द्रस्य भार्या । ' वरुणेन्द्र रुद्र-भव-शर्व-मृडादान् चान्तः' (२।४।६२ ) ङीप्र० - आनन्ते च । पञ्चेन्द्राण्यो देवता अस्य । 'देवता' (६।२।१०१) अणुप्र० । 'द्विगोरनपत्ये० ' ( ६।१।२४) अण्लोपः । अनेन ङीनिवृत्तिः । [पञ्चाग्निः] पञ्चन्-अग्नि । अग्नेर्भार्या । पूतक्रतु-वृषाकप्यग्नि-कुसित-कुसीदादै च ' (२।४।६० ) ङीप्र० - ऐ च । ‘एदैतोऽयाय्' (१।२।२३) आय् । पञ्चाग्न्याय्यो देवता अस्य । 'देवता' (६।२।१०१) अणु प्र० । 'द्विगोरनपत्ये य० (६ | १|२४ ) अलोपः । अनेन डीनिवृत्तिः । प्रथमा सि । 'सो रु: ' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । - [ द्विस्त्र: ] द्वि- स्त्री । द्वाभ्यां स्त्रीभ्यां क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । अनेन डीनिवृत्तिः । [पञ्चयुवा] 'युक् मिश्रणे' (१०८०) यु । यूयते इति युवा । 'लू-पू-यु-वृषि-दंशि०' (उणा० ९०१ ) किद् अनुप० स्त्री चेत् युवतिः । ‘यूनस्तिः’ (२।४।७७) तिप्र० । पञ्चभिर्युवतिभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५० ) 5 इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) * इलोपः । अनेन । P + [पञ्चखट्वः] पञ्चभिः खट्वाभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५० ) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । अनेन आप्निवृत्तिः । [पञ्चसखः] पञ्चन्-सखि । ‘'नारी-सखी-पङ्क- श्वश्रू' (२।४।७६) डीप्र० । पञ्चभिः सखीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५० ) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६ । ४ । १४१ ) इकण्लोपः । अनेन ङीनिवृत्तिः । [द्विपङ्गुः] द्वि-पङ्गु । 'नारी-सखी-पगू-श्चश्रू' (२।४।७६ ) ऊप्र० पङ्ग-निपातः । द्वाभ्यां पङ्गुभ्यां क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । अनेन ऊनिवृत्तिः । [त्रिकरभोरूः ] त्रि । करभस्येव ऊरुः यस्याः सा । उतोऽप्राणिनश्चाऽयुरज्ज्चादिभ्य ऊङ् (२।४।७३) ऊप्र० ऊ । Jain Education International डी आदिर्यस्य ड्यादिस्तस्य । P L 3791570 | P * अणलोपः । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy