SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ १७४ [वैत्रकाः] वेत्राणि सन्त्यस्याम् । 'नडादे: कीयः' (६।२।९२) कीयप्र० । 'आत्' (२१४१८) आप्प०→आ । वेत्रकीयायां भवाः । 'भवे' (६।३।१२३) अणप्र० । 'वृद्धि: स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अनेन ईयलोपः ।। [वैतसकाः] वेतस । वेतसा अत्र सन्ति । 'नडादे: कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । वेतसकीयायां भवाः । 'भवे' (६३१२३) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अनेन ईयलोपः । [त्रैकाः] त्रि । त्रयोऽत्र सन्ति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । त्रिकीयायां भवाः । 'भवे' (६।३।१२३) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अनेन ईयलोपः । [ताक्षकाः] तक्षन् । तक्षाणो अत्र सन्ति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । तक्षकीयायां भवाः । 'भवे' (६।३।१२३) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । अनेन ईयलोपः । ऐक्षकाः] इक्षु । इक्षवोऽत्र सन्ति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । इक्षुकीयायां भवाः । ‘भवे' (६।३।१२३) अण्प्र०अ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अनेन ईयलोपः । [काष्ठकाः] काष्ठनि अत्र सन्ति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । काष्ठकीयायां भवाः । 'कोपान्त्याच्चाऽण' (६।३५६) अणप्र० । अनेन ईयलोपः ।। [कापोतकाः] कपोत । कपोता अत्र सन्ति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प्र० आ। कपोतकीयायां भवाः । भवे' (६।३।१२३) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । अनेन ईयलोपः । [क्रौञ्चकाः] क्रुश्चाः सन्ति अत्र । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । क्रुश्चकीयायां भवाः । 'भवे' (६।३।१२३) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । अनेन ईयलोपः ।। [नाडकीयः] नडाः सन्त्यस्याम् । 'नडादे: कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । नडकीयायां भवाः । 'भवे' (६।३।१२३) अणप्र० । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [प्लाक्षकीयः] प्लक्ष । प्लक्षाः सन्त्यत्र । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ। प्लक्षकीयायां भवाः । 'भवे' (६।३।१२३) अणप्र० । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [बिल्वक्रीयरूप्यम बिल्वकीयादागतं = बिल्वकीयरूप्यम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) रूप्यप्र० ।।छ।। न राजन्य-मनुष्ययोरके ।।२।४।९४।। [राजन्यमनुष्ययोः] राजन्यश्च मनुष्यश्च = राजन्यमनुष्यौ, तयोः । [अके] अक सप्तमी ङि । [राजन्यकम राज्ञोऽपत्यानि । 'जातौ राज्ञः' (६।१।९२) यप्र० । राजन्यानां समूहः = राजन्यकम् । 'गोत्रोक्ष-वत्सोष्ट्रवृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ्' (६।२।१२) अकञ्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [मानुष्यकम्] मनु । ॥ मनोरपत्यम् । 'मनोर्याऽणौ पश्चान्तः' (६।१।९४) यप्र०-षोऽन्तः । मनुष्याणां समूहः = मानुष्यकम् । 'गोत्रोक्ष-वत्सोष्ट्र-वृद्धा० (६।२।१२) अकञ्प्र०→अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' P) मनोरपत्यानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy