________________
१७३
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[गार्गकम] 5 गर्गाणां समूहो गार्गकम् । 'गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ्' (६।२।१२) अकञ्प्र०-→अक | 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।।
[वात्सकम्] वत्स । वत्सस्याऽपत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । वत्सानां समूहः = वात्सकम् । 'गोत्रोक्ष वत्सोष्ट्र-वृद्धा० (६।२।१२) अकञ्प्र०→अक । 'अवर्णवर्णस्य' (७।४।१) अलोपः । अनेन यलोपः ।
[गार्गीयः] गार्ग्य । गार्ग्यस्याऽयं = गार्गीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन यलोपः ।
[वात्सीयः] वात्स्य । वात्स्यस्याऽयं = वात्सीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन यलोपः ।
[सांकाश्यकः] संकाश । संकाशेन निर्वृत्तम् । 'सुपन्थ्यादेयंः' (६।२१८४) ज्यप्र०य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धि: आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । सांकाश्ये भवः । 'प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात' (६।३।४३) अकञ्प्र०→अक । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
काम्पील्यकः] कम्पील । कम्पीलेन निर्वृत्तम् । 'सुपन्थ्यादेर्व्यः' (६।२।८४) ज्यप्र०य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । काम्पील्ये भवः । 'प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात्' (६।३।४३) अकञ्प्र०→अक । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[गार्यरूप्यः] गार्ग्य । गाग्र्यादागतम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) रूप्यप्र० ।
[गाायणः] गर्गस्याऽपत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्य' (६।१।४२) याप्र०→य । गाय॑स्याऽपत्यं युवा । 'यञिञः' (६।११५४) आयनणप्र०-→आयन । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ ।
[कारिकेयिः] कारिकेयस्याऽपत्यम् । 'अत इञ्' (६।१।३१) इप्र०→इ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[हारिकेयिः] हारिकेय । हारिकेयस्याऽपत्यम् । ‘अत इञ्' (६।१।३१) इञ्प्र०→इ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । छ।।
बिल्वकीयादेरीयस्य ।।२।४।९३॥ [बिल्वकीयादेः] बिल्वकीय आदिर्यस्याऽसौ बिल्वकीयादिः, तस्य ।
बिल्वकाः] बिल्वाः सन्त्यस्यामिति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२१४१८) आप्प्र०→आ । बिल्वकीयायां भवाः । 'भवे' (६।३।१२३) अणप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अनेन ईयलोपः । प्रथमा जस् ।
[वैणुकाः] वेणवः सन्त्यस्यामिति । 'नडादेः कीयः' (६।२।९२) कीयप्र० । 'आत्' (२।४।१८) आप्प०→आ । वेणुकीयायां भवाः । 'भवे' (६।३।१२३) अणप्र० अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अनेन ईयलोपः । प्रथमा जस् ।
P卐
गार्गकम् - गर्गस्याऽपत्यानि वृद्धानि । 'गदर्यञ्' (६।१।४२) यञ्प्र० । 'यञोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) इति यो लोपे प्राप्ते 'न प्राग्जितीये स्वरे' (६११३५) इत्यादिना अकञि प्राप्ते यलोपनिषेधे च इदं यलोपकरणम् । गर्गाणां समूहः = गार्गकम् । 'गोत्रोक्ष-वत्सोष्ट्र०' (६।२।१२) इत्यादिना अकञ् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org