SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ १७२ [वात्सीयति] वत्स । वत्सस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६१६४२) यञ्प्र०य । शेषं 'गार्गीयति' वत् । [गायते] गार्ग्य इवाचरति । 'क्यङ्' (३।४।२६) क्यड्स०→य । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।। वात्सायते] वात्स्य इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यङ्म०→य । दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः आ । वर्त्त० ते । [गार्गीभूतः] गार्ग्य 'भू सत्तायाम्' (१) भू । अगायॊ गार्यो भवति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'कृभ्वस्तिभ्यां कर्म-कतृभ्यां प्रागतत्तत्त्वे च्चिः' (७।२।१२६) च्चिप्र० । 'ईश्च्चाववर्णस्या-ऽनव्ययस्य' (४।३।१११) ई। वात्सीभूतः] अवात्स्यो वात्स्यो भवति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० । 'कृ-भ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्चिः' (७।२।१२६) च्चिप्र० । 'ईश्च्चाववर्णस्या-ऽनव्ययस्य' (४।३।१११) ई । अनेन यलोपः । [सांकाश्यीयति] संकाश । संकाशेन निर्वृत्तं = सांकाश्यम् । ‘सुपन्थ्यादेर्व्यः (६।२।८४) ज्यप्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । सांकाश्यमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र०→य । 'क्यनि' (४।३।११२) ई । [सांकाश्यायते] सांकाश्य इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यप्र०→य । ‘दीर्घश्च्वि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः आ । सांकाश्यीभूतः] असांकाश्यः सांकाश्यो भवति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र०→त । 'कृभ्वस्तिभ्यां' (७।२।१२६) विप्र० । 'ईश्च्चाववर्णस्या-ऽनव्ययस्य' (४।३।१११) ई । 'अप्रयोगीत्' (११।३७) विलोपः । [कारिकेयीयति] 'डुबंग करणे' (८८८) कृ । करणाय = कारिका । 'क्रियायां क्रियार्थायां०' (५।३।१३) णकचप्र० →अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । 'आत्' (२।४।१८) आप्प०→आ । 'समानानां०' (१।२।१) दीर्घः । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ । कारिकाया अपत्यम् । ‘ड्याप्-त्यूङः' (६।१७०) एयणप्र०→एय । 'अवर्णेवर्णस्य' (७।४।६८) आलोपः । कारिकेयमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प०→य । 'क्यनि' (४।३११२) ई । वर्त्त० तिव । 'कर्त्तर्यनभ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । __ [कारिकेयायते] कारिका ? (कारिकेय) इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यड्म०→य । 'दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः । [कारिकेयीभूतः] अकारिकेयः कारिकेयो भवति स्म । 'गत्यर्थाऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र०→त । 'कृभ्वस्तिभ्यां०' (७।२।१२६) च्विप्र० । 'ईश्च्वाववर्णस्या-ऽनव्ययस्य' (४।३।१११) ई ।।छ।। तद्धितय-स्वरेऽनाति ।।२।४।९२।। [तद्धितयस्वरे] यश्च स्वरश्च = यस्वरम्, 'तद्धितस्य यस्वरं = तद्धितयस्वरम्, तस्मिन् । [अनाति] न आत् = अनात्, तस्मिन् । [गार्ग्यः] गर्ग । गर्गस्याऽपत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२) यप०→य । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । गायें साधुः । 'तत्र साधौ' (७।१।१५) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन यलोपः । P卐 तद्धितं च तद् यस्वरं च = तद्धितयस्वरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy