SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ (२।४।१९) ङी । ‘अस्य ड्यां लुक्' (२।४।८६ ) अलोपः । अनेन यलोपः । [सौमी दिक्] सोमो देवता अस्याः । 'क- सोमाट्टयण' (६।२।१०७) ट्यण्प्र०य । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलोपः । 'अणजेयेकण्० ' (२।४।२०) डी | [ औचिती] उचितस्य भावः । 'पति- राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६० ) ट्यण्प्र०य । वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'अणञेयेकण्०' (२।४।२० ) डी | [चातुरी] चतुरस्य भावः कर्म वा । 'पति- राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यण्प्र०य । वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः । 'अणञेयेकण्-नञ्-सञ्० ' (२।४।२०) डी | [सामिधेनी] समिधो भावः । ' समिध आधाने टेन्यण्' (६।३।१६२) टेन्यण्प्र० एन्य । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आ । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य यां लुक्' (२।४।८६ ) अलोपः । अनेन यलोपः । [कारिकेयी] कारिकाया अपत्यम् । 'ङ्याप्-त्यूङः ' ( ६।१।७० ) एयण्प्र० एय । 'अवर्णवर्णस्य' (७|४|६८) आलोपः । ‘अणञेयेकण्०' (२।४।२०) डी । 'अस्य ड्यां लुक्' (२।४।८६ ) अलोपः । [हरिकेयी] हारिकाया अपत्यम् । 'याप्-त्यूङः ' (६।१ । ७०) एयण्प्र० एय । 'अवर्णेवर्णस्य' (७।४।६८) आलोपः । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६ ) अलोपः । [वैश्यी] वैश्यस्य भार्या । 'धवाद् योगादपालकान्तात्' (२।४।५९ ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । [आवट्या] अवटस्याऽपत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र०य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आ । 'आत्' (२।४।१८) आप्प्र० आ । छ । सूर्या - ऽगस्त्ययोरीये च ||२|४|८९ ।। [ सूर्याऽगस्त्ययोः ] सूर्यश्च अगस्त्यश्च = सूर्याऽगस्त्यौ तयोः । १७० [ मानुषी - सूरी] सूर्य । सूर्यस्य भार्या मानुषी-सूरी । 'धवाद् योगादपालकान्तात् ' (२।४।५९) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । अनेन यलोपः । = [सौरी प्रभा ] सूर्यस्येयम् । ' तस्येदम् ' ( ६ | ३ | १६० ) अण्प्र० । ' वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः औ । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणञेयेकण्० ' (२।४।२० ) ङी । 'अस्य यां लुक्' (२।४।८६ ) अलोपः । अनेन यलोपः । [आगस्ती] अगस्त्यस्येयम् । 'तस्येदम् ' ( ६ | ३ | १६० ) अणुप्र० । ' वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणञेयेकण्० ' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । अनेन यलोपः । Jain Education International [ सौरीयः ] सूर्यो देवताऽस्य । 'देवता' ( ६।२।१०१ ) अण्प्र० । सौर्यस्याऽयम् । 'दोरीय:' ( ६ | ३ | ३२) ईयप्र० । [ आगस्तीयः ] अगस्त्यो देवताऽस्य । 'देवता' ( ६ । २ । १०१ ) अण्प्र० । आगस्त्यस्याऽयम् । 'दोरीयः' ( ६ | ३ | ३२) ईयप्र० । [सौर्यः] सूर्यो देवताऽस्य । 'देवता' ( ६ । २ । १०१ ) अण्प्र० । ' वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [ आगस्त्यः ] अगस्त्यस्याऽयम् । 'तस्येदम्' ( ६ । ३ । १६० ) अण्प्र० । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy