________________
१६९
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[कौमुदगन्धीबन्धुः] कौमुदगन्ध्या बन्धुरस्य । [परमकारीषगन्धीबन्धुः] परमा चासौ कारीषगन्ध्या च = परमकारीषगन्ध्या । परमकारीषगन्ध्या बन्धुरस्याऽसौ ।
[परमकौमुदगन्धीबन्धुः] परमा चासौ कौमुदगन्ध्या च = परमकौमुदगन्ध्या । परमकौमुदगन्ध्या बन्धुरस्याऽसौ । अनेन ष्य → ईच् ।
[कारीषगन्ध्यापतिामः] कारीषगन्ध्या पतिरस्याऽसौ । [कारीषगन्ध्याबन्धुकुलः] बन्धोः कुलं = बन्धुकुलम् । कारीषगन्ध्याया बन्धुकुलं यस्य सः = कारीषगन्ध्याबन्धुकुलः ।
[अतिकारीषगन्ध्याबन्धुः] कारीषगन्ध्यामतिक्रान्ता या सा = अतिकारीषगन्ध्या । अतिकारीषगन्ध्या बन्धुरस्याऽसौ अतिकारीषगन्ध्याबन्धुः ।छ।।
मात-मातृ-मातृके वा ।।२।४।८५।। [मातमातृमातृके] मातश्च माता च मातृकश्च = मातमातामातृकम्, तस्मिन् । [कारीषगन्धीमातः, कारीषगन्ध्यामातः] कारीषगन्ध्या माता यस्य सः ।
[परमकारीषगन्धीमातः, परमकारीषगन्ध्यामातः] परमा चासौ कारीषगन्ध्या च = परमकारीषगन्ध्या । परमकारीषगन्ध्या माता यस्याऽसौ । अत एव निर्देशाद् मात आदेशः ।
[कारीषगन्धीमाता, कारीषगन्ध्यामाता] कारीषगन्ध्या माता यस्य सः ।
[कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः] कारीषगन्ध्या माता यस्याऽसौ । 'ऋन्नित्यदितः' (७।३।१७१) कचप्र० →क । अनेन ईच् ।।छ।।।
अस्य ड्यां लुक् ।।२।४।८६।। [कुरुचरी] कुरु ‘चर भक्षणे च' (४१० ) चर् । कुरुषु चरतीति । 'चरेष्टः' (५।१।१३८) टप्र०→अ । 'अणजेयेकण्नञ्-स्नञ्-टिताम्' (२।४।२०) डीप्र० । अनेन अलोपः ।
[मद्रचरी मद्र ‘चर भक्षणे च' (४१०) चर् । मद्रेषु चरतीति । 'चरेष्टः' (५191१३८) टप्र०→अ । 'अणजेयेकणनञ्-सञ्-टिताम्' (२।४।२०) डीप्र० । अनेन अलोपः ।
[दण्डिनी] दण्ड । दण्डोऽस्याऽस्तीति । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'स्त्रियां नृतोऽस्वस्त्रादेर्डीः' (२१४१) डी ।
[की] 'डुकंग करणे' (८८८) कृ । करोतीति । 'णक-तृचौ' (५।११४८) तृचप्र० । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर् । 'स्त्रियां नृतोऽस्वस्त्रादेर्डीः' (२।४।१) डी । 'इवर्णादे०' (१।२।२१) र० छ।।
मत्स्यस्य यः ।।२।४।८७।। [मत्सी] मत्स्य 'गौरादिभ्यो०' (२१४/१९) डी | 'अस्य ड्यां लुक' (२१४१८६) अलोपः । अनेन यलोपः ।
[मात्सी] मत्स्यो नाम कश्चित् तस्याऽपत्यं स्त्री । उणादयः(?) ('अत् इञ्' (६।१।३१) इप्र०) । 'वृद्धिः स्वरेष्वादे०' (७।४१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन यलोपः ।।छ।।
व्यञ्जनात् तद्धितस्य ।।२।४।८८।। [मनुषी] मनु | मनोरपत्यं वृद्धं स्त्री । ‘मनोर्याऽणौ षश्चान्तः' (६११९४) यप्र० . ष अन्ते । 'गौरादिभ्यो०'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org