________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ।।
१६८
[सात्यमुग्या, सात्यमुग्री] सत्यमुग्रं यस्याऽसौ सत्यमुग्रः । अत एव निर्देशाद् मकारागमः । सत्यमुग्रस्याऽपत्यं वृद्धं स्त्री । ‘अत इञ्' (६।१।३१) इञ्प्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१० वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन ष्य →य । 'आत्' (२।४।१८) आप्प०→आ । म 'इञ इतः' (२।४७१) ङी ।
[काण्ठेविद्धया, काण्ठेविद्धी] कण्ठे विध्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'ज्या व्यधः क्डिति' (४।१।८१) यवृत् । 'तत्पुरुषे कृति' (३।२।२०) इत्यलुप्समासः । कण्ठेविद्धस्याऽपत्यं वृद्धं स्त्री । 'अत इञ्' (६।१।३१) इञ्प्र०→इ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन ष्यत्र्य । ‘आत्' (२।४।१८) आप्प्र० →आ । 5 'इञ इतः' (२।४७१) ङी ।।छ।।
___ष्या पुत्र-पत्योः केवलयोरीच् तत्पुरुषे ।।२।४।८३।। [ष्या] ष्या प्रथमा सि । दीर्घड्याब्०' (१।४।४५) सिलोपः । [पुत्रपत्योः] पुत्रश्च पतिश्च = पुत्रपती, तयोः । [तत्पुरुषे] सश्चासौ पुरुषश्च = तत्पुरुषस्तस्मिन् ।
[कारीषगन्धीपुत्रः] करीषस्येव गन्धो यस्याऽसौ । 'वोपमानात्' (७।३।१४७) इत्समासान्तः । करीषगन्धेरपत्यं वृद्धं स्त्री । 'दुसोऽपत्ये' (६।१।२८) अण्प० । 'वृद्धि: स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । 'अनार्षे वृद्धेऽणिजो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः' (२।४।७८) ष्यत्र्य । 'आत्' (२।४।१८) आपूप्र०→आ । कारीषगन्ध्यायाः पुत्रः । अनेन ईच् →ई ।
[कारीषगन्धीपतिः] कारीषगन्ध्यायाः पतिः । अनेन ईच् → ई । [कौमुदगन्धीपुत्रः] कौमुदगन्ध्यायाः पुत्रः । [कौमुदगन्धीपतिः] कौमुदगन्ध्यायाः पतिः । [परमकारीषगन्धीपुत्रः] परमा चासौ कारीषगन्ध्या च = परमकारीषगन्ध्या । परमकारीषगन्ध्यायाः पुत्रः ।। [परमकारीषगन्धीपतिः] परमकारीषगन्ध्यायाः पतिः ।
[गौकक्ष्यापुत्रः] गौरिव कक्षो यस्याऽसौ गोकक्षः । गोकक्षस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र० →य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धि: गौ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'आत्' (२।४।१८) आप्प०→आ । गौकक्ष्यायाः पुत्रः ।
[इभ्यापुत्रः] इभमर्हति । 'दण्डादेर्यः' (६।४।१७८) यप्र० । 'आत्' (२।४।१८) आप्प०→आ । इभ्यायाः पुत्रः ।
[क्षत्रियापुत्रः] क्षत्र । क्षत्रस्याऽपत्यं स्त्री । 'क्षत्रादियः' (६।१।९३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'आत्' (२।४।१८) आप्प०→आ । क्षत्रियायाः पुत्रः ।
[कारीषगन्ध्याकुलम्] कारीषगन्ध्यायाः कुलम् । [कारीषगन्ध्यापुत्रकुलम्] पुत्रस्य कुलं = पुत्रकुलम् । कारीषगन्ध्यायाः पुत्रकुलं = कारीषगन्ध्यापुत्रकुलम् ॥छ।।
बन्धौ बहुव्रीहौ ।।२।४।८४।। [कारीषगन्धीबन्धुः] कारीषगन्ध्या बन्धुरस्य ।
P4 'नुर्जातेः' (२।४।७२) डी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org