________________
१६७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[पौणिकी पुणिकस्याऽपत्यम् । प्रथमापत्ये इञः ष्यादेशो न भवति । 'वृद्धिः स्वरेष्वादे०' (७।४19) वृद्धि: औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । ‘इतोऽक्त्यर्थात्' (२।४।३२) डी ।
[गौतमी] गोतमस्याऽपत्यं वृद्धं स्त्री । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण-नञ्-सञ्-टिताम्' (२।४।२०) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ॥छ।।
क्रौड्यादीनाम् ॥२।४।८०॥ [क्रौड्यादीनाम्] क्रौडिरादिर्येषां ते = क्रौड्यादयस्तेषाम् ।
[कौड्या] क्रोडस्याऽपत्यं वृद्धमनन्तरम् । अत इञ्' (६।१।३१) इञ्प्र० । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन इञः→ष्य→य | ‘आत्' (२।४।१८) आप्प्र०→आ ।
[लाड्या] लडस्याऽपत्यं वृद्धमनन्तरम् । अत इञ्' (६।१।३१) इञ्प्र० । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन इञः→ष्य→य । ‘आत्' (२।४।१८) आप्प्र०→आ ।
[क्रौडेयः] क्रौड्याया अपत्यम् । ‘ड्याप्-त्यूङः' (६।१।७०) एयणप्र०→एय । ‘अवर्णवर्णस्य' (७।४।६८) आलोपः । 'तद्धितयस्वरेऽनाऽऽति' (२।४।९२) यलोपः ।
[चौपयतेयः] चौपयत्याया अपत्यम् । ‘ड्याप्-त्यूङः' (६।१।७०) एयणप्र०→एय । ‘अवर्णवर्णस्य' (७।४।६८) आलोपः । तद्धितयस्वरेऽनाऽऽति' (२१४९२) यलोपः ।।छ।।
भोज-सूतयोः क्षत्रिया-युवत्योः ।।२।४।८१।। [भोजसूतयोः] भोजश्च सूतश्च = भोजसूतौ, तयोः । [क्षत्रियायुवत्योः] क्षत्रिया च युवतिश्च = क्षत्रियायुवती, तयोः । [भोज्या] भोजवंशे जाता क्षत्रिया । अनेन ष्य-→य । ‘आत्' (२।४।१८) आप्प०→आ । [सूत्या प्राप्तयौवना मानुषी = सूत्या । अनेन ष्य-→य । 'आत्' (२।४।१८) आप्प०→आ । [भोजा] भोज । 'आत्' (२।४।१८) आप्प०→आ । [सूता] सूत । 'आत्' (२।४।१८) आप्प०→आ ||छ।।
दैवयज्ञि-शौचिवृक्षि-सात्यमुनि-काण्ठेविद्रेर्वा ।।२।४।८२।। [दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धेः] दैवयज्ञिश्च शौचिवृक्षिश्च सात्यमुनिश्च काण्ठेविद्धिश्च = दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धि, तस्य ।
दैिवयच्या, देवयज्ञी] देवा यज्ञे यस्याऽसौ देवयज्ञः । देवयज्ञस्याऽपत्यं वृद्धं स्त्री । 'अत इञ्' (६।१।३१) इप्र० →इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन ष्य त्र्य । 'आत्' (२।४।१८) आप्प्र० आ । # ‘इञ इतः' (२।४।७१) डी ।
[शौचिवृक्ष्या, शौचिवृक्षी] शुचयो वृक्षा यस्याऽसौ शुचिवृक्षः । शुचिवृक्षस्याऽपत्यं वृद्धं स्त्री । 'अत इञ्' (६।१।३१) इञ्प्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन ष्यत्र्य । 'आत्' (२।४।१८) आपप्र०→आ । म 'इञ इतः' (२१४७१) डी । P卐 'नुर्जातेः' (२१४७२) डी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org