SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥ [ संहितोरू] संहितौ ऊरू यस्याः सा । [सहोरूः ] सह( हौ) विद्यमानौ ऊरू यस्याः सा । [ स (श) फोरूः ] शफवत् ऊरू यस्याः सा । [ वामोरूः ] वामौ ऊरू यस्याः सा । [लक्ष्मणोरूः ] लक्ष्मणौ ऊरू यस्याः सा । अनेन सर्वत्र ऊप्र० । [वृत्तोरुः ] वृत्तौ ऊरू यस्याः सा । [पीनोरुः ] पीनौ ऊरू यस्याः सा । [करभमानूरुः ] करभवत् मात्रौ ऊरू यस्याः सा ||छ । नारी-सखी-पङ्गू-श्वश्रू ||२|४१७६ ।। [नारीसखीपश्चश्रू] नारी च सखी च पङ्गश्च श्वश्रूश्व इति द्वन्द्वः, सूत्रत्वात् जस्लोपः । [ नारी] नुर्नरस्य वा भार्या । अनेन ड्यां नारीनिपात्यते । [सखी] सख्युर्भार्या सह खेन वर्त्तते या सा, वा । अनेन ड्यां सखीनिपात्यते । [पङ्गः ] पङ्गर्भार्या । अनेन ऊङि परिति निपात्यते । [ श्वश्रूः ] श्वशुरस्य भार्या । अनेन ऊङि श्वश्रूरिति निपात्यते ॥ छ ॥ यूनस्तिः || २|४|७७ ॥ [यूनस्तिः ] युवन् । पञ्चमी इसि । 'श्वन्- युवन् मघोनो डीस्याद्यघुट्स्वरे व उ: ' (२।१।१०६) व० उ० । 'समानानां ० ' (१।२।१) दीर्घः । तिप्र० । प्रथमा सि । सो रुः' (२।१।७२) स० २० । 'रः पदान्ते विसर्गस्तयोः ' (१।३।५३) विसर्गः । [ युवतिः ] 'युक् मिश्रणे' (१०८०) यु । यूयते इति युवा । 'लू-पू-यु-वृषि-दंशि-धु-दिवि-प्रतिदिविभ्यः कित्' (उणा० ९०१) किद् अन्प्र० स्त्री चेत् युवतिः । अनेन तिप्र० । १६४ [यूनी] युवन् 'स्त्रियां नृतोऽस्वस्रादेर्डी : ' (२।४।१ ) ङीप्र० । ' श्वन्- युवन् - मघोनो डीस्याघुट्स्वरे व उ:' ( २।१।१०६) व० उ० । 'समानानां ० ' (१।२1१) दीर्घः । [युवती] 'युक् मिश्रणे' (१०८०) यु । यौति = मिश्रते इति युवतिः । 'योः कित्' (उणा० ६५८) किद् अतिप्र० । 'घातोरिवर्णोवर्णस्येयुव्०' (२।१।५० ) उव् । 'इतोऽक्त्यर्थात् ' (२।४।३२) ङीप्र० । 'समानानां०' (१।२।१) दीर्घः । [अतियूनी] युवानमतिक्रान्ता सा । 'स्त्रियां नृतोऽस्वसादेर्डी : ' (२।४।१) ङीप्र० । 'श्वन्- युवन् मघोनो० ' (२।१।१०६) व० उ० । 'समानानां०' (१।२1१) दीर्घः । [निर्यूनी] 5 निर्गता यूनः = निर्यूनी । 'स्त्रियां नृतोऽस्वसादेर्डी : ' (२।४।१) ङीप्र० । 'श्वन्- युवन् मघोनो० ' (२।१।१०६) व० उ० । 'समानानां ० ' (१।२1१) दीर्घः ॥ छ ॥ अनार्षे वृद्धेऽणि बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः || २ |४ |७८ || [ अनार्षे] न आष अनार्षम् । 'अन् स्वरे' ( ३।२।१२९) अन् तस्मिन् । P5 निःक्रान्ता यूनः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy