________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [वधूः] 'वहीं प्रापणे' (९९६) वह् । उह्यते मातुलेन विवाहकाले इति वधूः । 'वहे च' (उणा० ८३२) ऊप्र० -
हस्य धू ।
[ अतिब्रह्मबन्धुः ] ब्रह्मा वन्धुरस्याः सा = ब्रह्मबन्धूः । ब्रह्मबन्धूमतिक्रान्तः । ' गोश्चान्ते० ' (२।४।९६ ) ह्रस्वः ।
[चिकीर्षुः] ‘डुकृंग् करणे’ (८८८ ) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' ( ३।४।२१) सन्प्र० स । ‘स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां क्ङितीर्' (४।१।११६) इर् । 'सन्-यङश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जन०' (४।१।४४) लोपः । 'क-डश्चञ्' (४।१।४६ ) क० च० । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' ( २।३।१५) स० ष० । चिकीर्षणम् । 'सन्- भिक्षा ऽऽशंसेरु: ' ( ५१२ । ३३) उप्र० ।
१६३
[ अध्वर्युः स्त्री] अध्वर् 'यांक् प्रापणे' (१०६२) या । अध्वरं यातीति । 'केवयु- भुरण्य्वध्वर्यादयः' ( उणा० ७४६ ) अध्वर्युनिपातः ।
[कथं तर्हि भीरु ! गतं निवर्तत इति ?] 'ञिभक् भये' (११३२) भी । बिभेतीत्येवंशीलः । 'भियो रु रुक- लुकम्’ (५।२।७६) रुप० ।
[" असूर्यंपश्यरूपा त्वं किमभीरुररार्यसे"] 'ऋक् गतौ' (११३५) ॠ । भृशं पुनः पुनर्वा इयर्त्ति । 'अट्यर्त्ति - सूत्रिमूत्रि-सूच्यशूर्णोः ' ( ३।४।१० ) यप्र०य । 'क्य यङाऽऽशीर्ये' (४।३।१०) गु० अर् । 'स्वराऽऽदेर्द्वितीयः' ( ४।१।४ ) र्यद्विर्वचनम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलोपः । 'आ-गुणावन्यादेः' ( ४|११४८) आ । वर्त्त० से |छ ||
बाह्रन्त-कद्रु- कमण्डलोर्नाम्नि || २ |४ |७४ ||
|
[बाह्रन्तकद्रुकमण्डलोः] बाहुरन्ते यस्याऽसौ बाह्वन्तः । बाह्वन्तश्च कद्रुश्च कमण्डलुश्च = बाह्वन्तकद्रुकमण्डलु, तस्मात् [मद्रबाहूः] मद्रौ बाहू यस्याः सा ।
[भद्रबाहूः ] भद्रौ बाहू यस्याः सा ।
[कमण्डलूः] क ' मडुण् भूषायाम्' (१६३३) मड् । 'उदितः स्वरान्नोऽन्तः ' ( ४|४|९८ ) नोऽन्तः । केन - पानीयेन मण्ड्यते इति कमण्डलुः । ' गूहलु - गुग्गुलु - कमण्डलव:' ( उणा० ८२४) कमण्डलुनिपातः । अनेन ऊड्प्र० ऊ ।
[वृत्तबाहुः ] वृत्तौ बाहू यस्याः ||छ ||
उपमान-सहित-संहित-सह- शफ-वाम-लक्ष्मणाद्यूरोः || २ |४।७५ ||
[उपमानसहितसंहितसहशफवामलक्ष्मणात्]
उपमानं च सहितश्च संहितश्च सहश्च + शफश्च वामश्च लक्ष्मणश्च =
उपमानसहितसंहितसहशफवामलक्ष्मणम्, तस्मात् ।
[करभोरूः ] करभवत् ऊरू यस्याः सा ।
[ नागनासोरूः ] नागनासा इव ऊरू यस्याः सा । अनेन ऊङ् । [कदलीस्तम्भोरू] कदलीस्तम्भ इव ऊरू यस्याः सा । [सहितोरूः ] सहितौ ऊरू यस्याः सा ।
Jain Education International
उपमानसहितसंहितसहशफवामलक्ष्मणाः, ते आदयो यस्याऽसौ
P5 उपमानं च सहितश्च संहितश्च सहश्च शफश्च वामश्च लक्ष्मणश्च = उपमानसहितसंहितसहशफवामलक्ष्मणादिः, स चासौ ऊरूश्च असौ, तस्मात् ।
+ उक्तं च लघुवृत्यवचूरी- यद्यप्यमरसिंहेन' कविका तु खलीनोऽस्त्री, शर्फ क्लीबे खुरः पुमान्' इति शफशब्दस्य क्लीबत्वमुक्तं तथापि पुंस्त्वमपि प्रामाणिकमेव 'शफः खुरे गवादीनां मूले विटपिनामपीति' श्री हेमचन्द्रकोशात् । श० न्या० सफशब्दः संक्लिष्टार्थोऽव्युत्पन्नो दन्त्यादिः ।
For Private Personal Use Only
www.jainelibrary.org