________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ।।
१६२
(६।१।१२१) ज्यलोपः । अनेन डीप्र० ।
[दाक्षी] दक्षस्याऽपत्यम् । 'अत इञ्' (६।१३१) इञ्प्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । अवर्णवर्णस्य (७।४।६८) अलोपः । अनेन डी ।
[प्लाक्षी] प्लक्षस्याऽपत्यम् । 'अत इञ्' (६।१।३१) इञ्प०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी ।
[तैकायनी तिकस्याऽपत्यं वृद्धं स्त्री । 'तिकादेरायनिञ्' (६।११०७) आयनिप०→आयनि । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी ।
[ग्लुचुकायनी] ग्लुचुक । ग्लुचुकस्याऽपत्यं वृद्धं स्त्री । 'अदोरायनिः प्रायः' (६।१।११३) आयनिप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी ।
[विट विश् । विशोऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६/१११४) अप्र० । 'द्रेरञणोऽप्राच्यभर्गादेः' (६।१।१२३) अञ्लोपः । 'यज-सृज-मज०' (२।१।८७) श०→ष० । 'धुटस्तृतीयः' (२।१।७६) ष०→ड० । 'विरामे वा' (१३५१) ड०० । ____[दरद] दरदोऽपत्यम् । 'पुरु-मगध-कलिङ्ग-सूरमस-द्विस्वरादण' (६।१।११६) अणप्र० । 'देरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अणलोपः । प्रथमा सि । 'दीर्घङ्या०' (१।४।४५) सिलोपः । 'विरामे वा' (१३५१) द० त० ।
[अवन्तीः स्त्री] अवन्तिमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र०→य । 'दीर्घश्च्वि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । अवन्तीयतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वयव्यञ्जने लुक्' (४।४।१२१) यलोपः ।
[तित्तिरिः] तित्तिरि । प्रथमा सि । 'सो रुः' (२।१।७२) स०→र० ।
[निष्कौशाम्बिः कन्या कुश-अम्ब | कुशेनाऽम्बोऽम्बनं यस्याऽसौ कुशाम्बः । कुशाम्बेन निर्वृत्ता | 'तेन निवृत्ते च' (६।२७१) अणप्र०→अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण-नञ्स्नञ्-टिताम् (२।४।२०) डी । 'अस्य ङ्यां लुक' (२।४।८६) अलोपः । निर्गतः कौशाम्ब्याः । 'गोश्चान्ते इस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) र०→ष० ।।छ।।
उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊ ।।२।४।७३।। [अप्राणिनः] न प्राणी = अप्राणी, तस्मात् ।
[अयुरज्ज्वादिभ्यः] रज्जुः आदिर्येषां ते = रज्ज्वादयः । युश्च रज्ज्वादयश्च = युरज्ज्वादयः । न युरज्ज्वादयोऽयुरज्ज्वादयस्तेभ्यः ।
[कुरूः] कुरु । कुरोरपत्यं स्त्री । दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः ' (६।१।११८) ज्यप्र० । 'कुरोर्वा' (६।१।१२२) ज्यलोपः । अनेन ऊङ् । 'समानानां०' (१।२।१) दीर्घः ।
[इक्ष्वाकूः] इक्ष्वाकु । इक्ष्वाकोरपत्यम् । ‘राष्ट्र-क्षत्रियात्०' (६।१।११४) अप्र० । ‘देरअणोऽप्राच्यभर्गादेः' (६।१।१२३) अञ्लुप् । अनेन ऊङ् ।
[ब्रह्मबन्धूः] बह्या बन्धुरस्याः सा । अनेन ऊप्र०-→ऊ ।
[धीवबन्धूः] धीवा बन्धुरस्याः सा । अनेन ऊप्र०→ऊ। 卐 लघुवृत्तौ - दरत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org