SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६१ कौरव्य - माण्डूका - Ssसुरेः || २ |४ |७० || [कौरव्यमाण्डूकाऽऽसुरेः ] कौरव्यश्च माण्डूकश्च आसुरिश्च कौरव्यमाण्डूकाऽऽसुरि, तस्मात् । [ कौरव्यायणी] कुरोरपत्यं वृद्धं स्त्री । 'दु-नादि कुर्वित्- कोशला ऽजादाञ्ज्य:' ( ६।१।११८) ञ्यप्र०य । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७० ) अव् । अनेन डी - डायनन्ते च । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [माण्डूकायनी] मण्डूकस्याऽपत्यं वृद्धं स्त्री । 'पीला साल्वा मण्डूकाद् वा' (६।१।६८) अण्प्र० - अ । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अवर्णवर्णस्य' ( ७|४|६८) अलोपः । अनेन डी-डायनन्ते च । [आसुरायणी] असुरस्याऽपत्यं वृद्धं स्त्री । 'बाह्वादिभ्यो गोत्रे' (६।१।३२ ) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादे० ' ( ७।२।१) वृद्धि: । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी डायनन्ते च । । छ || इञ इतः || २।४।७१ ॥ [इञ इतः ] इञ् पञ्चमी ङसि । इत् पञ्चमी ङसि । [सौतङ्गमी] सुतं गच्छतीति । ‘नाम्नो गमः खड्-डौ च विहायसस्तु विहः' (५।१।१३१) खप्र० →अ । 'खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च' ( ३।२।१११ ) मोऽन्तः । सुतङ्गमेन निर्वृत्ता । 'सुतङ्गमादेरिञ्' (६।२।८५) इञ्प्र ० इ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । अवर्णवर्णस्य (७।४।६८) अलोपः । अनेन डी । [मौनिचित्ती] 55 मुनिचित्तेन निर्वृत्तम् । 'सुतङ्गमादेरिञ्' (६।२।८५) इ० इ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१ ) वृद्धिः । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी । [वाराण] वराह । वराहस्याऽपत्यम् । 'अत इञ्' (६।१।३१) इञ्प्र० - इ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'अनार्षे वृद्धेऽणिञो वहुस्वर - गुरूपान्त्यस्याऽन्तस्य यः' (२।४।७८) ष्यादेशः 'आत्' (२।४।१८) आप्प्र ० आ । । [बालाक्या] बलाकस्याऽपत्यम् । 'अत इञ्' (६।१।३१ ) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अनार्षे वृद्धेऽणिञ०' (२।४।७८) प्यादेशः य । 'आत्' (२।४।१८) आप्प्र ० आ । Jain Education International [ कारीषगन्ध्या ] 'कृत् विक्षेपे' (१३३४) कृ । कीर्यते वायुनेति करीषः । कृ-तृभ्यामीषः' (उणा० ५५३ ) ईषप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । करीषस्येव गन्धो यस्याऽसौ । 'वोपमानात् ' ( ७१३।१४७ ) इत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । करीषगन्धेरपत्यं वृद्धं स्त्री । 'डसोऽपत्ये ' ( ६।१।२८) अण्प्र० अ । ' वृद्धिः स्वरोष्वादे०' (७।४।१) वृद्धि: । 'अनार्षे वृद्धेऽणिञो० ' (२।४।७८) ष्यादेशः य । 'आत्' (२।४।१८) आप्प्र ० आ । [कौमुदगन्ध्या] कुमुदस्येव गन्धो यस्याऽसौ । 'वोपमानात्' (७।३।१४७) इत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । कुमुदगन्धेरपत्यं स्त्री । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० इ । 'अनार्षे वृद्धेऽणिञ०' (२।४।७८) ष्यादेशः →य । 'आत्' (२।४।१८) आप्प्र ० आ |छ । नुजः । २।४।७२ ।। [ अवन्ती] अवन्तेरपत्यं स्त्री । 'दु-नादि कुर्वित्- कोशला - ऽजादाञ्ञ्यः' (६।१।११८) व्यप्र०य । 'कुन्त्यवन्तेः स्त्रियाम्' (६।१।१२१ ) ञ्यलोपः । अनेन डीप्र० । [ कुन्ती ] कुन्तेरपत्यं स्त्री । 'दु-नादि कुर्वित्- कोशला-जादाञ्ञ्यः' (६।१।११८ ) ञ्यप्र०य । कुन्त्यवन्तेः स्त्रियाम्' P5 असुरस्य ऋषेरपत्यं वृद्धं स्त्री । P सुतङ्गमादिगणे - मुनिवित्त । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy