________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पाद: ।।
१६०
यो डायन च वा ।।२।४।६७।। [गार्गी, गाायणी] गर्गस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्य' (६।११४२) याप्र०य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णे' (७।४।६८) अलोपः । अनेन ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । डीयोगे च डायनन्ते विकल्पे । 'डित्यन्त्यस्वरादेः' (२।१११४) अन्त्यस्वरादिलोपः ।
वात्सी, वात्स्यायनी] वत्सस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ' (६।१।४२) याप्र०→य | ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन ङी । 'अस्य यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२१४१८८) यलोपः । ङीयोगे च डायनन्ते विकल्पे । 'डित्यन्त्यस्वरादे:' (२१११४) अन्त्यस्वरादिलोपः ।।छ।।
लोहितादिशकलान्तात् ।।२।४।६८।। लोहितादिशकलान्तात] लोहित आदिर्यस्याऽसौ लोहितादिः । ॥ शकलोऽन्ते यस्याऽसौ शकलान्तः । लोहितादिश्वासौ शकलान्तश्च = लोहितादिशकलान्तम्, तस्मात् ।।
लौहित्यायनी] लोहित । लोहितस्याऽपत्यं वृद्धं स्त्री । 'गदर्यञ्' (६।१।४२) यप० →य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी - डायन च । 'डित्यन्त्यस्वरादेः' (२११११४) अन्त्यस्वरादिलोपः ।
[कात्यायनी] + कति । कतेरपत्यं वृद्धं स्त्री । ‘गर्गादेर्यञ्' (६।१।४२) यञ्प्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) इलौपः । अनेन डी - डायन च । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[शाकल्यायनी] शकलस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी - डायन् च ।।छ।।
षावटाद् वा ।।२।४।६९।। [षावटात्] षश्च अवटश्च = षाऽवटम्, तस्मात् ।
[पौतिमाष्यायणी, पौतिमाष्या] 'पूगश् पवने' (१५१८) पू । पूयत इति पूतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । पूतयो माषा यस्य सः = पूतिमाषः । पूतिमाषस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प०→य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी - डायनन्ते च ।
शार्कराक्ष्यायणी, शार्कराक्ष्या] शर्करा-अक्षि । शर्करा अक्षि यस्याऽसौ । ‘अक्ष्णोऽप्राण्यङ्गे (७।३।८५) अत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः । शर्कराक्षस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यप्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी - डायनन्ते च ।
[गौकक्ष्यायणी, गौकक्ष्या] गो-कक्ष । गवां कक्षो यस्याऽसौ गोकक्षः । गोकक्षस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।११४२) याप्र०→य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णे०' (७।४।६८) अलोपः । अनेन डी - डायनन्ते च ।
[आवट्यायनी, आवट्या] अवटस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी - डायनन्ते च ।।छ।।
P卐 शकलोऽन्तो यस्याऽसौ । + श० म० न्यासानुसन्धाने - कायतेः 'पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित्' (उणा० २०८) कित्यतेऽकारलोपे च कतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org