________________
१६५
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[अणिञः] अण् च इञ् च = + अणिञ्, तस्य ।
[बहुस्वरगुरूपान्त्यस्य] बहवः स्वरा यत्र तद् बहुस्वरम् । गुरुरुपान्त्ये यत्र तद् गुरूपान्त्यम् । बहुस्वरं च तद् गुरूपान्त्यं च = बहुस्वरगुरूपान्त्यम्, तस्य ।।
[कारीषगन्ध्या] ‘कृत् विक्षेपे' (१३३४) कृ । कीर्यते वायुनेति । 'कृ-तृभ्यामीषः' (उणा० ५५३) ईषप्र० । 'नामिनो गुणोऽक्डिति' (४१३१) गु० अर । करीषस्येव गन्धो यस्याऽसौ । 'वोपमानात्' (७।३।१४७) इत्समासान्तः । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । करीषगन्धेरपत्यम् । ‘डसोऽपत्ये' (६१।२८) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । अणोऽनेन ष्य । ‘आत्' (२।४।१८) आप्प०→आ । 'समानानां०' (१।२।१) दीर्घः ।
[कौमुदगन्ध्या] कुमुदस्येव गन्धो यस्याऽसौ । 'वोपमानात्' (७।३।१४७) इत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । कुमुदगन्धेरपत्यं वृद्धं स्त्री । ‘पौत्रादि वृद्धम्' (६।१२) - ‘डसोऽपत्ये' (६।१।२८) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धि: कौ । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । अणोऽनेन ष्य । 'आत्' (२१४१८) आप्प०→आ । 'समानानां०' (१।२।१) दीर्घः ।
[देवदत्त्या] देवदत्तस्याऽपत्यं वृद्धं स्त्री । ‘पौत्रादि वृद्धम्' (६।१।२) 'अत इञ्' (६।१।३१) इञ्प्र०→इ । ‘वृद्धिः
७।४।१० वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन इञः→ष्यादेशः । ‘आत्' (२।४।१८) आप्प० → आ ।
[वाराहया] वराहस्याऽपत्यं वृद्धम् । ‘अत इञ्' (६।१।३१) इञ्प्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । ‘अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन इञः→ष्यादेशः । 'आत्' (२।४।१८) आप्प०→आ ।
[बालाक्या बलाकाया अपत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । अनेन इञः→ष्यादेशः । 'आत्' (२।४।१८) आप्प्र०→आ ।
वासिष्ठी] वसिष्ठस्याऽपत्यं वृद्धं स्त्री । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अणजेयेकण-नञ्-सञ्-टिताम्' (२।४।२०) डी ।
[वैश्वामित्री विश्वं मित्रमस्य । 'ऋषौ विश्वस्य मित्रे' (३।२७९) विश्वस्य मित्रे दीर्घत्वम् । विश्वामित्रस्याऽपत्यं वृद्धं स्त्री । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अणजेयेकण्०' (२।४।२०) डी ।
[वाराही] वराहस्याऽपत्यं स्त्री । ‘डसोऽपत्ये' (६।१।२८) अण्प्र० । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अणजेयेकण्०' (२।४।२०) डी ।
[आहिच्छत्री] अहिवत् छत्रं यस्यां सा = अहिच्छत्रा नगरी । म अहिच्छत्रायां जाता । 'जाते' (६।३।९८) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । 'अणजेयेकण्०'. (२।४।२०) डी ।
[कान्यकुब्जी] कन्यकुब्जे जाता । 'जाते' (६।३।९८) अण्प०→अ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण'० (२।४।२०) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ।
[आतभागी ऋतः प्राप्तो भगः पुण्यं येन, अथवा ऋतेन सत्येन भज्यते वा ऋतभागः । ऋतभागस्याऽपत्यं वृद्धं स्त्री । 'विदादेवृद्धे' (६।१।४१) अञ्प्र०→अ । 'वृद्धि: स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण०' (२०४।२०) डी । 'अस्य इयां लुक' (२१४८६) अलोपः ।
P + अणिौ
।
P卐 अहिच्छत्रे जाता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org