________________
१५७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
(१।४।४५) सिलोपः ।।छ।।
अनञो मूलात् ।।२।४।५८।। [अनञः] न नञ् = अनञ् । 'नञत्' (३।२।१२५) न० → अ०, तस्मात् ।
दर्भमूली] 55 दर्भस्येव मूलानि यस्यां सा । [शीर्षमूली] + + शीर्षवन्मूलानि यस्यां सा । [अमूला] 0 न विद्यन्ते मूलानि * यस्यां सा = अमूला ॥छ।।
धवाद् योगादपालकान्तात् ।।२।४।५९।। [पालकान्तात्] पालकोऽन्ते यस्याऽसौ पालकान्तः । न पालकान्तोऽपालकान्तः । 'नञत्' (३।२।१२५) न० → अ०, तस्मात् ।
[प्रष्ठी] प्र-स्था । प्रतिष्ठते । 'स्था-पा-सा-त्रः कः' (५1१1१४२) कप्र०-अ । 'इडेत्-पुसि चाऽऽतो लुक'(४।३।९४) आलोपः । 'प्रष्टोऽग्रगे' (२।३।३२) षत्वम । प्रष्ठस्य भार्या = प्रष्ठी ।
[प्रचरी] प्रचरस्य भार्या = प्रचरी ।
[गणकी] 'गणण संख्याने' (१८७४) गण । गणयतीति गणकः । 'णक-तृचौ' (५११४८) णकप्र०→अक | गणकस्य भार्या = गणकी।
[महामात्री] महामात्रस्य भार्या = महामात्री ।
[प्राष्ठी] प्रष्ठस्येयम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी ।
[प्राचरी] प्रचरस्येयम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी ।
[परिसृष्टा] परि 'सृजत् विसर्गे' (१३४९) सृज् । परिसृज्यते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यजसृज-मृज०' (२।१८७) ज० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०-८० । 'आत्' (२।४।१८) आप्प०→आ ।
[प्रजाता] प्र ‘जनैचि प्रादुर्भावे' (१२६५) जन् । प्रजायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘आः खनिसनि-जनः' (४२१६०) न०आ० ।
[प्रसूता] प्र ‘षडौंक प्राणिगर्भविमोचने' (११०७) षू । 'षः सोऽष्टय-ष्ठिव-ष्वष्कः' (२।३।९८) सू । प्रसूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०नेत । 'आत्' (२।४।१८) आप्प०-→आ ।
[गोपालिका] गो 'पलण रक्षणे' (१६९९) पल् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । गोः (गाः) पालयतीति । ‘णक-तृचौ' (५।१।४८) णकप्र०→अक । ‘णेरनिटि' (४।३८३) णिच्लोपः । गोपालकस्य भार्या । 'आत्' (२।४।१८) आप्प०→आ । 'अस्याऽयत्-तत्'- (२।४।१११) इ । -
[पशुपालिका] पशु ‘पलण् रक्षणे' (१६९९) पल् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । 'ञ्णिति'
P ++ P+
शीर्षवन्मूलं यस्याम् । दर्भवन्मूलं यस्याम् ।
P 0 न विद्यन्ते मूलं यस्याम् । P * लघुवृत्त्यवचू० यस्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org