________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१५८
(४।३।५०) उपान्त्यवृद्धिः । पशून् पालयतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । ‘णेरनिटि' (४।३।८३) णिच्लोपः । पशुपालकस्य भार्या । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११)
[सहिष्णुः] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै-ष्ठिव ष्वष्कः' (२।३।९८) सह् । सहत इत्येवंशीलः । 'भ्राज्यलकृग-निराकृग-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-ऽपत्रप इष्णुः' (५।२।२८) इष्णुप्र० । सहिष्णोर्भार्या ।।छ।।
पूतक्रतु-वृषाकप्यग्नि-कुसित-कुसि(सी)दादै च ।।२।४।६०।। [पूतक्रतुवृषाकप्यग्निकुसितकुसि(सी)दात् पूतक्रतुश्च वृषाकपिश्च अग्निश्च कुसितश्च कुसीदं च = पूतक्रतुवृषाकप्यग्निकुसितकुसीदम्, तस्मात् ।
[पूतक्रतायी] 'पूग्श् पवने' (१५१८) पू । पूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । पूताः क्रतवो येन सः = पूतक्रतुः । पूतक्रतोर्भार्या ।
[वृषाकपायी] वृषाकपेर्भार्या [अग्नायी] अग्नेर्भार्या । [कुसितायी] कुसितस्य भार्या । [कुसि(सी)दायी] कुसीदस्य भार्या । सर्वत्र अनेन डी-ऐकारोऽन्ते च ।।छ।।
मनोरौ च वा ।।२।४।६१।। [मनावी, मनायी, मनुः] मनोर्भार्या । अनेन वा डी-डीयोगे च औकार-ऐकारोऽन्ते ॥छ।।
वरुणेन्द्र-रुद्र-भव-शर्व-मृडादान चाऽन्तः ।।२।४।६२।। [वरुणेन्द्ररुद्रभवशवमृडात्] वरुणश्च इन्द्रश्च रुद्रश्च भवश्च शर्वश्च मृडश्च = वरुणेन्द्ररुद्रभवशर्वमृडम्, तस्मात् । [वरुणानी] वरुणस्य भार्या । [इन्द्राणी] इन्द्रस्य भार्या । [रुद्राणी] रुद्रस्य भार्या । [भवानी] भवस्य भार्या । [शर्वाणी] शर्वस्य भार्या ।।
मृडानी] मृडस्य भार्या । सर्वत्र अनेन डी - आनन्ते च ।
[इन्द्राणी] इन्द्रमाचष्टे । 'णिजबहुलं०' (३।४।४२) णिचप्र०→इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । इन्द्रयतीति क्विप । 'णेरनिटि' (४।३।८३) णिचलोपः । 'अप्रयोगीत्' (१1१1३७) क्विपलोपः । तन्मते डी - आन् च । 'रवर्णान्नो ण०' (२।३।६३) न०→ण ।
[मातुलानी] मातुलमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिचप्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । मातुलयतीति क्विप् । 'णेरनिटि' (४।३।८३) णिचुलोपः । 'अप्रयोगीत्' (११३७) क्विप्लोपः । तन्मते ङी - आन् च ॥छ।।
' सिदशब्दो हुस्वमध्यो न तु दीर्घमध्यः - लघुवृत्त्यवचूरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org