SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाsध्यायस्य चतुर्थः पादः ॥ १५६ [ बहुपाका यवागूः ] बहुः पाको यस्याः सा । 'आत्' (२।४।१८) आप्प्र ० आ । प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५ ) सिलोपः । ।छ।। असत्-काण्ड-प्रान्त-शतैकाञ्चः पुष्पात् || २|४|५६॥ [असत्काण्डप्रान्तशतैकाञ्चः ] संश्च काण्डश्च प्रान्तश्च शतश्च एकश्च अञ्च् च = सत्काण्डप्रान्तशतैकाञ्थ् । न सत्काण्डअसत्काण्डप्रान्तशतैकाञ्च् तस्मात् । [ पुष्पात् ] पुष्प पञ्चमी ङसि - । [शङ्खपुष्पी] शङ्खवत् पुष्पाणि यस्यां सा । [सुवर्णपुष्पी ] सुवर्णवत् पुष्पाणि यस्यां सा । [ हिरण्यपुष्पी ] हिरण्यवत् पुष्पाणि यस्यां सा । अनेन सर्वत्र डी । [सत्पुष्पा] सन्ति = शोभनानि पुष्पाणि यस्यां सा । [काण्डपुष्पा ] काण्डवत् पुष्पाणि यस्यां सा । [ प्रान्तपुष्पा ] प्रान्ते पुष्पाणि यस्यां सा । [ शतपुष्पा ] शतं पुष्पाणि यस्यां सा । [ एकपुष्पा ] एकं पुष्पं यस्यां सा । [प्राकपुष्पा ] प्राञ्चि पुष्पाणि यस्यां सा 1 [ प्रत्यकपुष्पा ] प्रत्यञ्चः पुष्पाणि यस्यां सा । 'च-ज: क- गम्' (२।१।८६) च० क० । 'आत्' (२।४।१८) आप्प्र० → आ । 'दीर्घङ्याब्० ' (१।४।४५) सिलोपः । । छ || प्रान्ततैकाञ्च = असं भस्त्रा-जिनैक-शण-पिण्डात् फलात् ||२|४|५७ ।। [असंभस्त्राऽजिनैकशणपिण्डात् ] सम् च भस्त्रा च अजिनं च एकश्च शणश्च पिण्डश्च = असंभस्त्राजिनैकशणपिण्डम्, तस्मात् । न संभस्त्राऽजिनैकशणपिण्डं P P + = + [वासीफली] वासीवत् फलानि यस्यां सा । [ पूगफली ] पूगवत् फलानि यस्यां सा । [ दाडिमफली ] दाडिमवत् फलानि यस्यां सा । अनेन सर्वत्र डी । [संफला ] सङ्गतानि फलानि यस्यां सा । [भस्त्राफला ] भस्त्रावत् फलानि यस्यां सा । [ अजिनफला ] अजिनवत् फलानि यस्यां सा । [ एकफला ] एकं फलं यस्यां सा । [ शणफला ] शणवत् फलं यस्यां सा । [पिण्डफला ] पिण्डवत् फलं यस्यां सा । 'आत्' (२।४।१८) आप्प्र० आ । प्रथमा सि । 'दीर्घड्याब्० ' अजिनश्च । [ दासीफली] दासीव फलं यस्याः सा । Jain Education International संभस्त्राऽजिनैकशणपिण्डम् । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy