________________
१५३
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[कुण्डमिता] कुण्डं मितं यया सा । [पलाण्डुजाता] पलाण्डुर्जातो यया सा । [वृक्षप्रतिपन्ना] वृक्षः प्रतिपन्नो यया सा । [शाङ्गरप्रिया] शाङ्गरः प्रियो यस्याः सा ।।छ।।
पत्युनः ।।२।४।४८॥ [पत्युः] पति पञ्चमी डसि→अस् । 'इवर्णादरस्वे०' (१२१२१) य० । 'खि-ति-खी-तीय उर' (१।४।३६) उरादेशः । [दृढपत्नी, दृढपतिः] दृढः पतिर्यस्याः सा । [स्थिरपत्नी, स्थिरपतिः] स्थिरः पतिरस्याः सा । [स्थूलपत्नी, स्थूलपतिः] स्थूलः पतिरस्याः सा । • [वृद्धपत्नी, वृद्धपतिः] वृद्धः पतिरस्याः सा । सर्वत्र अनेन डी - इकारस्य च नकारः । [बहुस्थूलपतिः पुरी] बहवः स्थूलपतयो यस्यां सा छ।।
सादेः ।।२।४।४९।। [सादेः] सह आदिना वर्त्तत इति सादिः । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सभावः, तस्मात् । [ग्रामपत्नी, ग्रामपतिः] ग्रामस्य पतिः । अनेन । [आशापत्नी, आशापतिः] आशायाः पतिः । अनेन । [राजपत्नी] राज्ञः पत्नी । 'ऊढायाम्' (२।४।५१) डीप्र०→ई- इकारस्य च नकारः, ततः समासः । [शूद्रपत्नी] शूद्रस्य पत्नी । 'ऊढायाम्' (२।४५१) डीप्र०→ई - इकारस्य च नकारः, ततः समासः ।।छ।।
सपत्न्यादौ ।।२।४।५०|| [सपत्न्यादौ] सपत्नी आदिर्यस्याऽसौ सपत्न्यादिस्तस्मिन् । [सपत्नी] समानः पतिर्यस्याः । [एकपत्नी एकः पतिरस्याः, एकस्य पतिर्वा । [वीरपत्नी] वीरः पतिरस्याः सा । [पिण्डपत्नी] पिण्डः पतिरस्याः सा | [भ्रातृपत्नी] भ्राता पतिर्यस्याः सा । [पुत्रपत्नी] पुत्रः पतिर्यस्याः सा । [सपत्नीभार्यः] सपत्नी भार्या यस्याऽसौ । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[सापत्नः] सपत्न्या अयं = सापनः । 'तस्येदम्' (६।३।१६०) अण्प्र० । अण्लुक् । 'ड्यादेगौणस्याक्विप०' (२।४।९५) डीनिवृत्तिः ।।छ।।
P4 एक एव पतिर्यस्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org