________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१५२
[गलकोत्कृती] गलकमुत्कृतं यस्याः सा । सर्वत्र अनेन डी ।
[दन्तकृता] दन्ताः कृता यस्याः सा ।
[दन्तमिता] दन्ता मिता यस्याः सा । [दन्तजाता] दन्ता जाता यस्याः सा ।
[दन्तप्रतिपन्ना] दन्ताः प्रतिपन्ना यस्याः सा । सर्वत्र ‘आत्' (२।४।१८) आप्प्र०→आ । [पादपतिता] पादयोः पतिता ।।छ।।
अनाच्छादजात्यादेर्नवा ।।२।४।४७।। [अनाच्छादजात्यादेः] आच्छादश्चासौ जातिश्च = आच्छादजातिः । न आच्छादजातिरनाच्छादजातिः । अनाच्छादजातिरादिर्यस्याऽसौ अनाच्छादजात्यादिस्तस्मात् ।
[शाङ्गरजग्धी, शारजग्धा] शाङ्गर 'अदं भक्षणे' (१०५९) अद् । अद्यते स्म । 'क्त-क्तवतू' (५।१1१७४) क्तप्र०→त । 'यपि चाऽदो जग्ध्' (४|४|१६) अद्०→जग्धादेशः । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध०→द० । 'धुटो धुटि स्वे वा' (१।३।४८) धलोपः । शाङ्गरो जग्धोऽनया सा ।
[पलाण्डुभक्षिती, पलाण्डुभक्षिता] पलाण्डुः लसणकन्दः कथ्यते । 'भक्षण अदने' (१७१७) भक्ष । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प०→इ । भक्ष्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'णेरनिटि'(४।३।८३) णिचुलोपः । पलाण्डुर्भक्षितोऽनया सा । अनेन डी ।
वस्त्रच्छन्ना] वस्त्र ‘छदण अपवारणे' (१९६४) छद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । छाद्यते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्तम्' (४।४।७४) छन्ननिपातनम् । म वस्त्रं छन्नमनया सा । ‘आत्' (२।४।१८) आप्प०→आ ।
_[वसनच्छन्ना] वसनं छन्नमनया सा । 'आत्' (२।४।१८) आप्प्र०→आ ।
+ [मासजाता] मास 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र०-→त । 'आः खनि-सनि जनः' (४।२।६०) न०→आ० । मासो जातोऽस्याः सा । ‘आत्' (२।४।१८) आप्प्र०→आ ।
[संवत्सरजाता] संवत्सरो जातोऽस्याः सा । 'आत्' (२।४।१८) आप्प०-→आ । [बहुजाता] बहवो जाता अस्याः सा । ‘आत्' (२।४।१८) आप्प०-→आ । [अजाता] न जातोऽस्याः सा । 'आत्' (२।४।१८) आप्प०->आ । [सुजाता] शोभनो जातोऽस्याः सा । ‘आत्' (२।४।१८) आप्प्र०→आ । [सुखजाता] सुखेन सुखं वा जातमस्याः सा । 'आत्' (२।४।१८) आपप्र०→आ । [दुःखमाता] दुःखेन दुखं वा जातमस्याः सा । 'आत्' (२।४।१८) आप्प०→आ ।
[कुण्डकृता] कुण्ड 'डुकंग करणे' (८८८ ) कृ । क्रियते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र०→त । कुण्डं कृतं यया सा । P5 वस्त्रं छन्नं यया सा । + बृहवृत्तौ मासजातादिसप्तसु उदाहरणेषु जातास्थाने याताऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org