SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ।। १५४ wwwwwwwwwwwwww ऊढायाम् ॥२।४।५१॥ [पत्नी] पत्युर्भार्या = पत्नी । [वृषलपत्नी] वृषलस्य पत्नी । 'सादेः' (२।४।४९) इत्यनेन समासे सति डी स्यात्, अतो न समासः क्रियते ।छ।। पाणिगृहीतीति ।।२।४।५२।। [पाणिगृहीतीति 55 पाणिगृहीती इति प्रकारो यस्याऽसौ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [पाणिगृहीती] पाणिर्गृहीतोऽस्याः । [करगृहीती] करो गृहीतोऽस्याः, करे वा गृहीता । [पाण्यात्ती] पाणिरात्तो गृहीतोऽस्याः सा । [करात्ती] करः आत्तो यस्याः सा । अनेन डी । [पाणीगृहीता] पाणी गृहाते स्म ॥छ।। पतिवन्यन्तर्वन्यौ भार्या-गर्भिण्योः ।।२।४।५३।। [पतिवत्न्यन्तर्वन्यौ] पतिवली च अन्तर्वली च = पतिवन्यन्तर्वत्न्यौ । [भागिर्भिण्योः] भार्या च गर्भिणी च = भार्यागर्भिण्यौ, तयोः । [पतिवत्नी] के पतिर्विद्यते यस्याः सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । अनेन डीप्र० - पतिवत्नीनिपात्यते । [अन्तर्वत्नी] + अन्तर्विद्यते यस्याः सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । अनेन डीप्र०अन्तर्वत्नीनिपात्यते ।छ।। जातेरयान्त-नित्यस्त्री-शूद्रात् ।।२।४५४।। [जातेः] जायतेऽन्तर्वृत्ताभिधान-प्रत्ययावस्या इति जातिस्तस्मात् । [अयान्तनित्यस्त्रीशूद्रात] योऽन्ते यस्याऽसौ यान्तः । यान्तश्चं नित्यस्त्री च शूद्रश्च = यान्तनित्यस्त्रीशूद्रम, तस्मात् । [नाडायनी] नड । नडस्याऽपत्यं वृद्धं स्त्री । 'नडादिभ्य आयनण' (६।१५२) आयनणप्र०→आयन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । अनेन डी । [चारायणी] चरस्याऽपत्यं वृद्धं स्त्री = चारायणी । 'नडादिभ्य आयनण' (६१५२) आनयणप्र०→आयन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । अनेन डी । [कटी] * कठेन प्रोक्तं वेदमधीते या = कठी । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) P 55 अखण्डं सूत्रं लिखित्वा सूत्रत्वाद् जस्लुप्यते स्म । P卐 पतिरस्याऽस्तीति । P + अन्तरस्याऽस्तीति निपातनादाधारादपि मतुः । P * कठेन प्रोक्तं वेदं वेत्त्यधीते वा । 'तेन प्रोक्ते' (६।३।१८१) इत्यण् । तस्याऽप्यगे 'तद्वेत्त्यधीते' (६।२।११७) इत्यण् । 'प्रोक्तात्' (६।२।१२९) इति द्वि० अण्लोपः । 'कठादिभ्यो वेदे लुप्' (६।३।१८३) इति प्रथमस्याप्यणो लोपः, ततोऽनेन डी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy