________________
१४९
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[परमशिखा] परमा शिखा यस्याः सा । [बहुशोफा] बहुः शोफः यस्याः सा । [बहुकफा] बहुः कफो यस्याः सा । [बहुज्ञाना] बहु ज्ञानं यस्याः सा | [दीर्घमुखा शाला] दीर्घ मुखं यस्याः सा । [पृथुमुखी] पृथुलं मुखं यस्याः सा ।
[द्विपादी] द्वयोः पादयोः समाहारः । ‘सु-संख्यात् (७।३।१५०) पाद०→पाद् । 'द्विगोः समाहारात्' (२।४।२२) डीप्र० ।
[त्रिपादी] त्रयाणां पादानां समाहारः । ‘सु-संख्यात्' (७।३।१५०) पाद०→पाद् । 'द्विगोः समाहारात्' (२।४।२२) डीप्र० ॥छ।।
नासिकोदरौष्ठ जवा-दन्त-कर्ण-शृङ्गा-ऽङ्गगात्र-कण्ठात् ।।२।४।३९।। [नासिकोदरौष्ठजड्वादन्तकर्णशृङ्गाऽङ्गगात्रकण्ठात्] नासिका च उदरं च ओष्ठश्च जचा च दन्तश्च कर्णश्च शृङ्गं च अङ्गं च गात्रं च कण्ठश्च = नासिकोदरौष्ठजवादन्तकर्णशृङ्गाऽङ्गगात्रकण्ठम्, तस्मात् ।
[तुङ्गनासिकी, तुइनासिका] तुङ्गा नासिका यस्याः सा । 'गोश्चान्ते०' (२।४।९६) हूस्वः । [कृशोदरी, कृशोदरा] कृशमुदरं यस्याः सा । [बिम्बोष्ठी, बिम्बोष्य] विम्बाकारौ ओष्ठौ यस्याः सा । [दीर्घजड्यी, दीर्घजा] + दीर्घ जो यस्याः सा । [समदन्ती, समदन्ता] समा दन्ता यस्याः सा । [चारुकर्णी, चारुकर्णा] चारु कर्णो यस्याः सा । [तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा] तीक्ष्णे शृङ्गे यस्याः सा । [मृगी, मृद्वङ्गा] मृदु अङ्गं यस्याः सा । [सुगात्री, सुगात्रा] शोभनं गात्रं यस्याः सा । [खिग्धकण्ठी, सिग्धकण्ठा] स्निग्धः कण्ठो यस्याः सा । [सहनासिका] सह विद्यमाना नासिका यस्याः सा । [सोदरा] सह उदरेण वर्त्तते । [अनुदरा न विद्यते उदरं यस्याः सा । [विद्यमानोदरा] विद्यमानमुदरं यस्याः सा । [पृथुजघना] पृथु जघनमस्याः सा ।
[सुललाटा] शोभनं ललाटं यस्याः सा । P + दीर्घा जङ्घा यस्याः सा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org