________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१४८
[पलिक्नी, पलिता] 'पल गतौ' (९८२) पल् । पल्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । अनेन डी - त० → क्न० । 'अस्य ड्यां लुक' (२।४।८६) अलोपः । द्वितीये 'आत्' (२।४।१८) आप् ।
[असिक्नी, असिता] 'असूच क्षेपणे' (१२२१) अस् । अस्यते स्म । 'क्त-क्तवतू' (५।१1१७४) क्तप्र० → त । । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । अनेन डी - त० → क्न० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । द्वितीये 'आत्' (२१४/१८) आप् छ।।
असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः ।।२।४।३८।। [असहनविद्यमानपूर्वपदात 5 विद्यमानः(नं) पूर्वपदं यस्याऽसौ विद्यमानपूर्वपदः । सहश्च नञ् च विद्यमानपूर्वपदश्च = सहनविद्यमानपूर्वपदम्, न सहनविद्यमानपूर्वपदं = असहनविद्यमानपूर्वपदम्, तस्मात् ।
[स्वाङ्गात्] + स्वं च तद् अङ्गं च = स्वाङ्गम्, तस्मात् । [अक्रोडादिभ्यः] क्रोड आदिर्येषां ते = क्रोडादयः । न क्रोडादयोऽक्रोडादयः, तेभ्यः । [पीनस्तनी, पीनस्तना] पीनौ स्तनौ यस्यां(याः) सा । [अतिकेशी,अतिकेशा माला] केशानतिक्रान्ता सा । [स्वडी, स्वडा वृश्चिकी] सु-अड । शोभनोऽडो यस्याः सा । अडो नाम वृश्चिकाद्यवयवः कण्टकः कथ्यते । [सहकेशा]* सह विद्यमानः केशा यस्याः सा । 'सहस्य सोऽन्यार्थे' (३।२।१४३) वा सभावः । [अकेशा न विद्यन्ते केशा यस्याः सा । [विद्यमानकेशा] विद्यमानाः केशा यस्याः सा । [बहुयवा] बहवो यवा यस्यां सा ।
[कल्याणक्रोडा] कल्याणी क्रोडा यस्याः सा । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । 'क्रोडोऽङ्के तिन्दुकं फले' क्रोडशब्दः स्त्री-क्लीवे । (लिङ्गानुशासने-१)
[कल्याणखुरा] कल्याणौ खुरौ यस्याः सा । [पीनगुदा] पीनौ गुदौ यस्याः सा । [एकशफा एकः शफो यस्याः सा । [दीर्घवाला] दीर्घा वाला यस्याः सा । [भव्यभाला] भव्यो भालो यस्याः सा । आलवाल-पल-भाल-पलाला(:) पुं-नपुंसकाः (लिङ्गानुशासने - २८) । [कल्याणगोखा] कल्याणी गोखा यस्याः सा । [किश(स)लयकरा] किसलयवत् करौ यस्याः सा ।
[मृणालभुजा] मृणालवद् भुजौ यस्याः सा । P卐 सहश्च नञ् च विद्यमानश्च = सहनविद्यमानम्, न सहनविद्यमानं = असहनविद्यमानम्, असहनविद्यमानं पूर्वपदं यस्य तत्तस्मात् । P + स्वमङ्गं = स्वाङ्गम् । P * सह केशैर्वर्त्तते सा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org