________________
१४७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[अकरणिः] 'डुकंग करणे' (८८८) कृ । न करणमकरणम् । अकरणं ते भूयात् । 'नोऽनिः शापे' (५।३।११७) अनिप्र० ।
[ज्यानिः] 'ज्यांश हानौ' (१५२४) ज्या । ज्यानं = ज्यानिः । 'ग्ला-हा-ज्यः' (५।३।११८) अनिप्र० ।
[ग्लानिः] 'ग्लैं हर्षक्षये' (३१) ग्लै । 'आत सन्ध्यक्षरस्य' (४।२।१) ग्ला । ग्लानं = ग्लानिः । 'ग्ला-हा-ज्यः (५।३।११८) अनिप्र० ।
[हानिः] 'ओहांक त्यागे' (११३१) हा । हानं = हानिः । ‘ग्ला-हा-ज्यः' (५।३।११८) अनिप्र० । 'समानानां०' (१।२।१) दीर्घः ।
[सातिः] 'षोंच अन्तकर्मणि' (११५०) षो । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सो | ‘आत् सन्ध्यक्षरस्य' (४।२।१) सा । सानं = सातिः । 'तिक्कृतौ नाम्नि' (५।१७१) तिकप्र० → ति ।
[सुरभिगन्धिः] सुरभिगन्धो विद्यते यस्याः सा । 'सु-पूत्युत्-सुरभेर्गन्धादिद् गुणे' (७।३।१४४) इत्प्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।।छ।।
पद्धतेः ।।२।४।३३।। [पद्धती, पद्धतिः] पाद ‘हनंक हिंसा-गत्योः' (११००) हन् । पादयोः हननं = पद्धतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'यमि-रमि-नमि-गमि-हनि०' (४।२५५) नलोपः । ‘दन्त-पाद-नासिका०' (२।१।१०१) पाद० → पद् (?) ('हिम-हति-काषि-ये पद्' (३।२।९६) पादस्य पद्) । 'ततो हश्चतुर्थः' (१९३३) ह० → ध० । अनेन ।।छ।।
शक्तेः शस्त्रे ।।२।४।३४।। [शक्ती, शक्तिः] 'शक्लँट शक्तौ' (१३००) शक् । 'शकनं = शक्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन । [शक्तिः-सामर्थ्यम] शकनं = शक्तिः ।।छ।।
स्वरादुतो गुणादखरोः ।।२।४।३५।। [अखरोः] न खरुः = अखरुस्तस्मात् ।
[चिचीषुः स्त्री 'चिंग्ट चयने' (१२९०) चि । चेतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) चि द्विवचनम् । 'स्वर-हन-गमोः सनि धुटि' (४११०४) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । चिचीषणम् । 'सन्-भिक्षा-55शंसेरुः' (५।२।३३) उप्र० ।
[खरुरियम खरुरियं सिता, उक्तं च - 'खरुः स्यादश्व-हरयोर्दर्प-दन्त-सितेषु च ॥छ।।
श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च ।।२।४।३६।। [श्येतैतहरितभरतरोहिताद्] श्येतश्च एतश्च हरितश्च भरतश्च रोहितं च = श्येतैतहरितभरतरोहितम्, तस्मात् । [श्येनी, श्येता] श्येत । अनेन डी - त० → न० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । एवमग्रेऽपि ।।छ।।
क्नः पलिता-ऽसितात् ।।२।४।३७।। [पलिताऽसितात्] पलितश्च असितश्च = पलिताऽसितम्, तस्मात् ।
P॥ पादाभ्यां हन्यते ।
P + शक्यते - हिंस्यते परोऽनयेति शक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org