________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१४६
www
क्ताच्च नाम्नि वा ।।२।४।२८।। [प्रबद्धविलूनी] 'बन्धंश् बन्धने' (१५५२) वन्ध, प्रपूर्व० । प्रवध्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप० → त । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'लुगश् छेदने' (१५१९) लू, विपूर्व० । विलूयते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । प्रबद्धश्चासौ विलूनश्च = प्रबद्धविलूनः, स्त्री चेत् ।
[प्रबद्धविलूना] प्रबद्धा चासौ विलूना च ।।छ।।
केवल-मामक-भागधेय-पापा-ऽपर-समाना-ऽऽर्यकृत-सुमङ्गल-भेषजात् ।।२।४।२९।। [केवलमामकभागधेयपापाऽपरसमानाऽऽर्यकृतसुमङ्गलभेषजात्] केवलश्च मामकश्च भागधेयश्च पापश्च अपरश्च समानश्च आर्यकृतश्च सुमङ्गलश्च भेषजश्च = केवलमामकभागधेयपापाऽपरसमानाऽऽर्यकृतसुमङ्गलभेषजम, तस्मात् । [मामकी] ममेयम् ।।छ।। भाज-गोण-नाग-स्थल-कुण्ड-काल-कुश-कामुक-कट-कबरात्
ऽकृत्रिमा-ऽमत्र-कृष्णा-ऽऽयसी-रिरंसु-श्रोणि-केशपाशे ।।२।४।३०।। [भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात्] भाजश्च गोणश्च नागश्च +स्थलश्च कुण्डश्च कालश्च कुशश्च कामुकश्च कटश्च कबरश्च = भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरम्, तस्मात् ।
[पक्वाऽऽवपनस्थूलाऽकृत्रिमाऽमत्रकृष्णाऽऽयसीरिरंसुश्रोणिकेशपाशे] पक्वा च आवपनं च स्थूला च अकृत्रिमा च अमत्रं च कृष्णा च आयसी च रिरंसुश्च श्रोणिश्च केशपाशश्च = पक्वाऽऽवपनस्थूलाऽकृत्रिमाऽमत्रकृष्णाऽऽयसीरिरंसुश्रोणिकेशपाशम्, तस्मिन् ।छ।।
नवा शोणादेः ।।२।४।३१।। [शोणादेः] शोण आदिर्यस्याऽसौ शोणादिस्तस्मात ।
[चान्द्रभागी वनराजिः] चन्द्रभागस्य इयम् । तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (।४।६८) अलोपः । तन्मते डी ।।छ।।
इतोऽक्त्य र्थात् ।।२।४।३२।। [अक्त्यर्थात] क्रर्थः = क्त्यर्थः । न क्त्यर्थोऽक्त्यर्थः । 'नञत्' (३।२।१२५) न० → अ०, तस्मात् ।
[आत्मम्भरी, आत्मम्भरिः] आत्मन् 'टुडु,गक पोषणे च' (११४०) भृ । आत्मानं बिभर्तीति । 'कुक्ष्यात्मोदराद् भृगः खिः' (५।१।९०) खिप्र० → इ । 'खित्यनव्ययाऽरुषो मोऽन्तो हूस्वश्च' (३।२।१११) मोऽन्तः । अनेन ।
कृतिः] 'डुकंग करणे' (८८८) कृ । करणं = कृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [हृतिः] 'हृग् हरणे' (८८५) ह । हरणं = हृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [अजननिः] 'जनैचि प्रादुर्भावे' (१२६५) जन् । अजननं ते भूयात् । 'नोऽनिः शापे' (५३।११७) अनिप्र० ।
P4 भेषजं च । P + स्थलं च । P एपक्वश्च आवपनं च स्थूलं च अकृत्रिमं च अमत्रं च कृष्णश्च आयसी च रिरंसुथ श्रोणिश्च केशपाशश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org