SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [त्रिकाण्डी रज्जुः] त्रीणि काण्डानि प्रमाणमस्याः सा । शेषं 'द्विकाण्डी रज्जुः' वत् । [द्विकाण्डा शाटी] द्वाभ्यां काण्डाभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप' (६।४।१४१) इकण्लोपः । ‘आत्' (२।४।१८) आप् । [त्रिकाण्डा शाटी] त्रिभिः काण्डैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप' (६।४।१४१) इकण्लोपः । 'आत्' (२।४।१८) आप् । [त्रिकाण्डा क्षेत्रभक्तिः] त्रीणि काण्डानि प्रमाणमस्याः सा । 'प्रमाणान्मात्रट' (७।१।१४०) मात्रटप० । 'द्विगोः संशये च' (७।१।१४४) मात्रड्लोपः ।।छ।। पुरुषाद् वा ।।२।४।२५।। [द्विपुरुषी, द्विपुरुषा परिखा] द्वि-पुरुप । द्वौ पुरुषौ प्रमाणमस्याः सा । 'हस्ति-पुरुषाद् वाऽण्' (७।१।१४१) अण्प्र० । 'द्विगोः संशये च' (७।१।१४४) अण्लोपः । अनेन डी । [त्रिपुरुषी, त्रिपुरुषा परिखा] त्रयः पुरुषाः प्रमाणमस्याः सा | ‘हस्तिपुरुषाद् वाऽण्' (७।१।१४१) अण्प्र० । 'द्विगोः संशये च' (७।१।१४४) अणलोपः । अनेन डी । परिखन्यते । 'खनो ड-डरेकेकवक-घं च' (५।३।१३७) डप्र० । [द्विपुरुषा वडवा] द्वाभ्यां पुरुषाभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । [त्रिपुरुषा वडवा] त्रिभिः पुरुषैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः ।।छ।। रेवत-रोहिणाद् भे ।।२।४।२६।। [रेवतरोहिणात्] रेवतश्च रोहिणश्च = रेवतरोहिणम्, तस्मात् । [रेवती] रेवती । रेवत्यां जाता । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अणप्र० । 'चित्रा-रेवती-रोहिण्याः स्त्रियाम' (६।३।१०८) अण्लोपः । ‘ड्यादेर्गोणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२।४।९५) डीलुक् । पुनरपि अनेन डी । [रोहिणी] रोहिणी । रोहिण्यां जाता । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । 'चित्रा-रेवती-रोहिण्याः स्त्रियाम्' (६।३।१०८) अण्लोपः । ‘ड्यादेhणस्या०' (२।४।९५) डीलुक् । पुनरपि अनेन डी । रेवतीरमणो बलः, रेवती, शुष्करेवती ?] रे । रे विद्यते यस्याः सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२।१।९४) म० → व० (?) ('नाम्नि' (२।१।९५) म० → व०) । 'अधातू०' (२।४।२) ङी । एवं शुष्करेवती । [रोहिणी ?] रोहिण । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) डीप्र० । 'अस्य ड्यां लुक' (२।४।८६) अलोपः ।।छ।। नीलात् प्राण्यौषध्योः ।।२।४।२७।। [नीलात् नील पञ्चमी सि । [प्राण्यौषध्योः] प्राणी च औषधिश्च = प्राण्यौषध्यौ, तयोः । [नीली गौः] नील । अनेन डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । [नीली औषधिः] नील । अनेन डी | ‘अस्य ड्या लुक्' (२।४।८६) अलोपः ।।छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy