SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ १४४ त्रिकुडवी] त्रिभिः कुडवैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । अनेन डी । द्वयाढकी] द्वाभ्यामाढकाभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकणलोपः । अनेन डी । [त्र्याढकी] त्रिभिराढकैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकण्लोपः । अनेन डी । [पञ्चाश्चा] पञ्चभिरश्वैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । [दशाश्वा] दशभिरश्वैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकण्लोपः । [द्विशता] द्वाभ्यां शताभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकण्लोपः । [द्विपण्या] द्वाभ्यां पणाभ्यां क्रीता । 'पण-पाद-माषाद् यः' (६।४।१४८) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'आत्' (२।४।१८) आप् । [द्विविस्ता] द्वाभ्यां बिस्ताभ्यां क्रीता | 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । +द्वि-त्रि-वहोर्निष्क-विस्तात्' (६।४।१४४) इकण्लोपः । ‘आत्' (२।४।१८) आप् । [त्रिविस्ता] त्रिभिर्विस्तैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'द्वि-त्रि-बहोर्निष्क-विस्तात्' (६।४।१४४) इकणलोपः । 'आत्' (२।४।१८) आप् । [द्विपरमविस्ता] परमाश्च ते विस्ताश्च = परमविस्ताः । द्वाभ्यां परमविस्ताभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'द्वि-त्रि-बहोर्निष्क-विस्तात्' (६।४।१४४) इकणलोपः । 'आत्' (२।४।१८) आप् । [द्वयाचिता] द्वाभ्यामाचिताभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकणलोपः । 'आत' (२।४।१८) आप । [त्र्याचिता] त्रिभिराचितैः क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकण्लोपः । ‘आत्' (२।४।१८) आप् । [द्विकम्बल्या] द्विकम्बलोऽस्य स्यात् । 'कम्बलान्नाम्नि' (७।१।३४) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । द्वाभ्यां कम्बल्याभ्यां क्रीता । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप' (६।४।१४१) इकणलोपः । 'आत' (२।४।१८) आप् ।।छ।। काण्डात् प्रमाणादक्षेत्रे ।।२।४।२४।। [अक्षेत्रे] ‘क्षित् निवास-गत्योः' (१३३१) क्षि । क्षियन्ति निवसन्त्युप्तानि बीजानि वृद्धिं गच्छन्त्यस्मिन्निति क्षेत्रम् । 'हु-या-मा-श्रु-वसि-भसि-गु-वी-पचि-वचि-धृ-यम्यमि-मनि-तनि-सदि-छादि-क्षि-क्षदि-लुपि-पति-धूभ्यस्त्रः' (उणा० ४५१) त्रप्र० । 'नामिनो गुणो०' (४।३।१) गु० ए । न क्षेत्रमक्षेत्रं, तस्मिन् । [द्विकाण्डी रज्जुः] द्वे काण्डे प्रमाणमस्याः सा । 'प्रमाणान्मात्रट' (७।१।१४०) मात्रटप्र० । 'द्विगोः संशये च' (७।१।१४४) मात्रड्लोपः । अनेन डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । P + 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy