SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४३ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका हुँदिका । स्तिनन्धयी] स्तन 'ट्धे पाने' (२८) धे । स्तनं धयते(ति) । 'शुनी-स्तन-मुझ-कूला-5ऽस्य-पुष्पाट्टधेः' (५1१1११९) खशप्र० → अ । 'खित्यनव्ययाऽरुषो मोन्तो ह्रस्वश्च' (३।२।१११) मोऽन्तः-इस्वश्च । अनेन डी । [पाणिनीया कन्या] पाणिनि । पाणिनिना प्रोक्तम् । ‘दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । पाणिनीयमधीते । 'तद् वेत्त्यधीते' (६।२।११७) अणप्र० । 'प्रोक्तात्' (६।२।१२९) अणलोपः । 'आत्' (२।४।१८) आप् । [बहुकुम्भकारा नगरी] बहवः कुम्भकारा यस्यां सा ।।छ।। वयस्यनन्त्ये ।।२।४।२१।। [अनन्त्ये न अन्त्योऽनन्त्यस्तस्मिन् । [द्विवर्षा] द्वे वर्षेऽस्याः सा । [त्रिवर्षा] त्रीणि वर्षाण्यस्याः सा । [उत्तानशया] उत्तान 'शीक स्वप्ने' (११०५) शी । उत्तानः शेते = उत्तानशया । 'ऊर्ध्वादिभ्यः कर्तुः' (५।११३६) अप्र० । 'आत्' (२।४।१८) आप् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [लोहितपादिका] लोहितौ पादौ यस्याः सा । 'शेषाद् वा' (७।३।१७५) कच्प० → क० । 'आत्' (२।४।१८) आप् । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ छ।। द्विगोः समाहारात् ।।२।४।२२।। [द्विगोः] द्वौ गावौ यत्राऽसौ, तस्मात् । [समाहारात सम्यगाहरणमेकीभाव इति समाहारस्तस्मात । [पञ्चपूली] पञ्चानां पूलानां समाहारः = पञ्चपूली । [पञ्चाजी] पञ्चानामजानां समाहारः = पञ्चाजी । [दशराजी] दशानां राज्ञां समाहारः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । अनेन डी । [द्विकुडवी] द्वयोः कुडवयोः समाहारः । अनेन डी । [त्रिफला] त्रयाणां फलानां समाहारः । 'अजादेः' (२।४।१६) आप् ॥छ।। परिमाणात् तद्धितलुक्यविस्ताऽऽचितकम्बल्यात् ।।२।४।२३।। [परिमाणात् परितः सर्वतो मानं = परिमाणम्, तस्मात् । [तद्धितलुकि] तद्धितस्य लुक् = तद्धितलुक्, तस्मिन् । [अविस्ताऽऽचितकम्बल्यात्] विस्तश्च अचितश्च : कम्वल्यं च = विस्ताऽऽचितकम्वल्यम्, न विस्ताऽऽचितकम्बल्यं %= अविस्ताऽऽचितकम्बल्यम् । 'नजत्' (३।२।१२५) न० → अ०, तस्मात् । [द्विकुडवी] द्वाभ्यां कुडवाभ्यां क्रीता = द्विकुडवी । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । अनेन डी । P卐 कम्बल्यश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy