________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१५०
[दृढहृदया] दृढं हृदयं यस्याः सा । [कल्याणगुल्फा] कल्याणौ गुल्फो यस्याः सा । [सुपार्वा ] FF शोभनौ पाश्चौ यस्याः सा ॥छ।।
नख-मुखादनाम्नि ||२४|४०।। [नखमुखात्] नखश्च मुखं च = नखमुखम्, तस्मात् । [अनाम्नि] न नाम = अनाम, तस्मिन् । [शूर्पनखी, शूर्पनखा] शूर्पाकारा नखा यस्याः सा । [अतिनखी, अतिनखा] नखानतिक्रान्ता सा । [चन्द्रमुखी, चन्द्रमुखा] चन्द्रवन्मुखं यस्याः सा । [अतिमुखी, अतिमुखा] अतिशयेन मुखं यस्याः सा । [शूर्पणखा] शूर्पाकारा नखा यस्याः सा । [व्याघ्रणखा] व्याघ्रस्येव नखा यस्याः सा । [वज्रणखा] वज्रवन्नखा यस्याः सा । [गौरमुखा] गौरं मुखं यस्याः सा । [श्लक्ष्णमुखा] श्लक्ष्णं मुखं यस्याः सा । कालमुखा] कालं मुखं यस्याः सा ।।छ।।
पुच्छात् ।।२।४।४१।। [पुच्छात्] पुच्छ पञ्चमी इसि । [दीर्घपुच्छी, दीर्घपुच्छा] दीर्घ पुच्छं यस्याः सा । [अतिपुच्छी, अतिपुच्छा] पुच्छमतिक्रान्ता (या) सा । [सपुच्छा] सह विद्यमानं पुच्छं यस्याः सा । [अपुच्छा] न विद्यते पुच्छं यस्याः सा । [विद्यमानपुच्छा] विद्यमानं पुच्छं यस्याः सा ||छ।।
कबर-मणि-विष-शरादेः ।।२।४।४२।। [कबरमणिविषशरादेः] कबरश्च मणिश्च ॥ विषं च शरश्च = कबरमणिविषशराः । कबरमणिविषशरा आदयो यस्याऽसौ कबरमणिविषशरादिस्तस्मात् ।
[कबरपुच्छी] कवरं-कर्बुरं पुच्छं यस्याः सा । [मणिपुच्छी] मणिः पुच्छे यस्याः सा । [विषपुच्छी] विषं पुच्छे यस्याः सा ।
[शरपुच्छी] शरवत् पुच्छं यस्याः सा । P卐 शोभने पार्वे यस्याः सा ।
P4 विषश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org