________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१४०
[अतिधीवरी] धीवानमतिक्रान्ता सा । ‘ण-स्वरा-ऽघोषाद् वनो रश्च' (२।४।४) डीप्र० → ई, न० → र० । [परमशूद्रा] परमा चासौ शूद्रा च ।।छ।।
ऋचि पाद: पात्पदे ।।२।४।१७।। [पात्पदे] पाच्च पदा च = पात्पदे । प्रथमा औ । 'औता' (१।४।२०) ए । [त्रिपात् ऋक्] त्रयः पादा यस्याः सा । 'सु-संख्यात्' (७।३।१५०) पाद् । अनेन पात् । [चतुष्पात् ऋक्] चत्वारः पादा यस्याः सा । 'सु-संख्यात्' (७।३।१५०) पाद् । अनेन् पात् । [त्रिपदा गायत्री] त्रयः पादा यस्याः सा । सु-संख्यात्' (७।३।१५०) पाद् । अनेन पदादेशः । [चतुष्पदा पङ्क्तिः ] चत्वारः पादा यस्याः सा । 'सु-संख्यात्' (७।३।१५०) पाद् । अनेन पदादेशः ।
[द्विपाद, द्विपदी] द्वौ पादौ यस्याः सा । 'सु-संख्यात्' (७।३।१५०) पाद० → पाद् । 'वा पादः' (२।४।६) डी विकल्पे । 'य-स्वरे पाद: पदणि-क्य-घुटि' (२।१।१०२) पाद्० → पद्० ।
[चतुष्पाद, चतुष्पदी] चत्वारः पादा यस्याः सा । ‘सु-संख्यात्' (७।३।१५०) पाद० → पाद् । ‘वा पादः' (२।४।६) डी विकल्पे । 'य-स्वरे पाद: पदणि-क्य-घुटि' (२।१।१०२) पाद० → प० ।।छ।।
आत् ।।२।४।१८।। [खट्वा] 'खट कार्ड्स' (१८६) खट् । खट्यते-आकाक्ष्यते शयालुभिरिति खट्वा । 'लटि-खटि-खलि-नलि-कण्यशौसृ-श-कू-ग-दृ-पृ- शपि -श्या-शाला-पदि इसीण्भ्यो वः' (उणा० ५०५) वप्र० ।
[अतिखट्वः] खट्वामतिक्रान्तः असौ । ‘गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः । [प्रियखट्वः] प्रिया खट्वा यस्याऽसौ । 'गोश्चान्ते०' (२१४९६) हूस्वः ।
[सोमपाः स्त्री] सोम ‘पां पाने (२) पा । सोमं पिबतीति । 'मन्-वन्-क्वनिप्-विच्-क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत' (१1१1३७) विज्लोपः । प्रथमा सि । ‘सो रुः' (२।१।७२) स०र० । 'रः पदान्ते०' (१३५३) विसर्गः ।।छ।।
गौरादिभ्यो मुख्यान्डीः ।।२।४।१९।। गौरादिभ्यः] गौर आदिर्येषां ते = गौरादयस्तेभ्यः ।
[आपच्चिकी] आपच्चिक । आपच्चिको राष्ट्रसरूपः क्षत्रियस्तस्यापत्यं स्त्री । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । 'शकादिभ्यो नेर्लुप्' (६।१।१२०) अज्लोपः । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) डीप्र० । 'अस्य ड्यां लुक' (२१४१८६) अलोपः ।
[पञ्चानड़वाहिः] पञ्चभिः अनु(न)ड्वाहीभिः क्रीतः = पञ्चानड्वाहि: । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः ।
[दशानडु(ड्वा)हिः] दशभिरनु(न)ड्वाहीभिः क्रीतः = दशानड्वाहिः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
___[आश्मरथ्यः] अश्मरथ । अश्मरथस्याऽपत्यम् । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र० → य । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org