________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंठिका ।
श्ववर्ग०' (१३।६०) न०० ।
[अतिपर्वणी यष्टिः] पर्व अतिक्रान्ता सा । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) डी ।
[सुदण्डिनी] सु-दण्ड । शोभनो दण्डोऽस्याऽस्ति । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) डी । 'इनः कच्' (७।३।१७०) कच् प्राप्तः । 'सहात् तुल्ययोगे' (७।३।१७८) निषेधः ।।छ।।
मनः ।।२।४।१४।। [सीमा] ‘पोंच् अन्तः(न्त) कर्मणि (११५०) पो । 'षः सोऽष्ट्यै-ष्ठिव प्वष्कः' (२।३।९८) सो । स्यति विवादमन्तं नयतीति सीमा । ‘स्यतेरी च वा' (उणा० ९१५) मन्प्र० - ईकारश्चान्तादेशः ।
[पामा] ‘पांक् रक्षणे' (१०६७) पा । पाति = रक्षति मुखमिति । 'मन्' (उणा० ९११) मन्प० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[पामानौ] 'पांक् रक्षणे' (१०६७) पा । पाति = रक्षति मुखमिति । 'मन्' (उणा० ९११) मन्प्र० । प्रथमा औ । 'नि दीर्घः' (१।४।८५) दीर्घः ।।छ।।
ताभ्यां वाऽऽप् डित् ।।२।४।१५।। [ताभ्याम्] तद् । सश्च सश्च = तौ । 'त्यदादिः' (३।१।१२०) एकशेषः, ताभ्याम् । [डित् ड् इद् अनुबन्धो यस्याऽसौ ।
[सीमे, सीमानौ] सीमन् । अनेन आप् डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । प्रथमा औ । 'औता' (१।४।२०) ए।
[सीमाः, सीमानः] सीमन् । अनेन आप डित् । 'डित्यन्त्यस्वरादेः' (२।१1११४) अन्लोपः । प्रथमा जस् ।
[सुपर्वे, सुपर्वाणौ] शोभनानि पर्वाणि ययोस्ते । अनेन डाप् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । ‘औता' (१।४।२०) ए।
[बहुराजाः] बहवो राजानो यासु ताः । अनेन आप् डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । [बहुराजानः] बहवो राजानो यासु ताः । 'नि दीर्घः' (१।४।८५) दीर्घः । [उद्दामाम्, उद्दामानम्, उद्दाम्नी वडवां पश्य] उद्गतं दाम यस्याः सा, ताम् । शेषं (२।४।१०) सूत्रवत् ।।छ।।
अजादेः ।।२।४।१६।। [अजादेः] 'अजा आदिर्यस्याऽसौ अजादिस्तस्मात् । [महाजा] महती अजा यस्याः सा । [परमाजा] परमा अजा यस्याः सा । [अतिभवती] भवन्तमतिक्रान्ता सा । 'अधातूदृहितः' (२।४।२) डीप्र० । [अतिमहती] महान्तमतिक्रान्ता सा । 'अधातूदृदितः' (२१४१२) डीप्र० ।
P卐 अज आदिर्यस्याऽसौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org