SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ अनो वा || २|४|११ ॥ [ बहुराइयो, बहुराजे, बहुराजानौ ] बहवो राजानो ययोस्ते । अनेन ङी । 'अनोऽस्य' (२।१।१०८) अलोपः । द्वितीये 'ताभ्यां वाऽऽप् डित्' (२।४।१५) डाप्प्र० । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अन्लोपः । प्रथमा औ । 'औता' (१।४।२०) ए । तृतीये 'नि दीर्घः' (१।४।८५) दीर्घः । एवमग्रेऽपि । [दीर्घानी, दीर्घाहा, दीर्घाहाः शरत्] दीर्घाण्यहानि यस्यां सा । अनेन ङी । 'अनोऽस्य' (२।१।१०८) अलोपः । द्वितीये ‘ताभ्यां वाऽप् डित्' (२।४।१५) डाप्प्र० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्लोपः । तृतीये 'अह्नः ' (२।१।७४) न० → २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । १३८ [ बहुतक्ष्ण्यो, बहुतक्षे, बहुतक्षाणी] बहवः तक्षाणो ययोस्ते । अनेन ङी । ' अनोऽस्य' (२।१।१०८) अलोपः । द्वितीये ‘ताभ्यां वाऽऽप् डित्’ (२।४।१५) डाप्प्र० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्लोपः । प्रथमा औ । 'औता' (१।४।२० ) ए । तृतीये 'नि दीर्घः' (१।४।८५) दीर्घः । [अतिराज्ञी] राजानमतिक्रान्ता सा । 'स्त्रियां नृतोऽस्वस्रादेर्डी : ' (२।४।१) ङी । 'अनोऽस्य' (२।१।१०८) अलोपः । ' तवर्गस्य श्चवर्ग० ' (१।३।६०) न० अ० ॥ छ ॥ नाम्नि || २ |४|१२ ॥ [अधिराज्ञी नाम ग्रामः] अधिको राजा यस्यां सा । अनेन डी। 'अनोऽस्य' (२।१।१०८) अलोपः । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० ० । [बहुराज्ञी नाम पुरी] वहवो राजानो यस्यां सा । अनेन डी । 'अनोऽस्य' (२।१।१०८) अलोपः । तवर्गस्य श्चवर्ग०' (१।३।६०) न० - ० 1 [ बहुसाम्नी नाम पुरी ] बहूनि सामानि यस्यां सा । अनेन डी । 'अनोऽस्य' (२।१।१०८) अलोपः ||छ || नोपान्त्यवतः || २ |४ | १३ ॥ [ उपान्त्यवतः ] उपान्त्यं विद्यते यस्याऽसी । तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्रमत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० - ० तस्मात् । [सुपर्वा] सु-पर्वन् । + शोभनं पर्व यस्याः सा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [सुपर्वाणी] शोभनं पर्व ययोस्ते । प्रथमा औ । 'नि दीर्घः' (१।४।८५) दीर्घः । [सुशर्मा] शोभनं शर्म यस्याः सा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [सुशर्माणौ ] शोभनं शर्म ययोस्ते । प्रथमा औ । 'नि दीर्घः' (१।४।८५) दीर्घः । [प्रियश्चा] प्रिय-धन् । प्रियः श्वा यस्याः सा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [प्रियश्वानौ] प्रियः श्वा ययोस्ते । प्रथमा औ । 'नि दीर्घः' (१।४।८५) दीर्घः । [ बहुराज्ञी] बहवो राजानो यस्यां सा । 'अनो वा' (२|४|११ ) ङी । 'अनोऽस्य' (२।१।१०८) अलोपः । ' तवर्गस्य P अन्ते भवोऽन्त्यः । ' दिगादिदेहांशाद् यः' (६।३।१२४ ) यप्र० । 'अवर्णेवर्णस्य' (७१४।६८) अलोपः । उपगतोऽन्त्यः = उपान्त्यः । उपान्त्योऽस्याऽस्ति । तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२1१) मतुप्र० मत् । शोभनानि पर्वाणि यस्यां सा । P + Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy