________________
१३७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
डी । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[महोनी महत् - ऊधस् । महत् ऊधो यस्याः सा । 'जातीयैकार्थेऽच्चेः' (३१२१७०) डाप्र०→आ । 'डित्यन्त्यस्वरादे:' (२।१।११४) अल्लोपः । 'स्त्रियामूधसो न्' (७।३।१६९) ऊधस्-ऊधन् । अनेन डी । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[पीवरोध्नी] पीवरं ऊधो यस्याः सा । 'स्त्रियामूधसो न्' (७।३।१६९) ऊधस्→ऊधन् । अनेन डी । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[पञ्चकुण्डोधा] पञ्चभिः कुण्डोनीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । ‘ड्यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२१४९५) डीलुक = पञ्चकुण्डोधन् । प्रथमा सि । “नि दीर्घः' (१।४।८५) दीर्घः । 'नाम्नो नोऽनहनः' (२।१।९१) नलोपः ।छ।।
अशिशोः ।।२।४।८।। [अशिशोः] न शिशुरशिशुः । 'नञत्' (३।२।१२५) न०अ०, तस्मात् । [अशिश्वी न विद्यते शिशुर्यस्याः सा । अनेन डी । ‘इवर्णादरस्वे स्वरे य-व-र-लम्' (१।२।२१) उ०व० छ।।
संख्यादेर्हायनाद् वयसि ।।२।४।९।। [संख्यादेः] संख्या आदिर्यस्याऽसौ संख्यादिः, तस्मात् । [हायनाद् वयसि हायन पञ्चमी उसि । वयस् सप्तमी ङि ।
[द्विहायनी] जहाति कालान्तरमिति । 'हः काल-वीहोः' (५।१।६८) टनणप्र०→अन । 'आत ऐः कृऔ' (४।३।५३) आ०→ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । द्वे हायने यस्याः सा, द्वौ हायनावस्या वा । अनेन डी । ‘अस्य ड्यां लुक्' (२।४।८६) अलोपः ।
[त्रिहायणी] त्रीणि हायनानि यस्याः सा । अनेन डी । 'अस्य ड्यां लुक' (२१४१८६) अलोपः । 'चतुस्त्रेर्हायनस्य वयसि' (२।४।७४) न०→ण० ।
[चतुर्हायणी] चत्वारि हायनानि यस्याः सा । अनेन डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । 'चतुस्त्रेयिनस्य वयसि' (२।३७४) न०→ण० ।
[द्विवर्षा कन्या] द्वे वर्षे यस्याः सा ।
[शतहायना स्त्री] शतेषु हायनेषु संहृता भवा वेति । 'वर्षा-कालेभ्यः' (६।३।८०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप' (६।४।१४१) इकणलोपः ।।छ।।
दाम्नः ।।२।४।१०।। [द्विदाम्नी द्वि-दामन् । द्वे दाम्नी यस्याः सा । अनेन डी । 'अनोऽस्य' (२।१।१०८) अलोपः । [त्रिदाम्नी] त्रीणि दामानि यस्याः सा । अनेन ङी । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[उद्दामानम् उद्दामाम् उद्दाम्नी वडवां पश्य] उत्-दामन् । 5 उद्गतं दाम यस्याः सा, ताम् । “नि दीर्घः' (१।४१८५) दीर्घः । द्वितीये 'ताभ्यां वाऽऽप् डित्' (२।४।१५) डाप्प० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । द्वितीया अम् । तृतीये 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) डी । 'अनोऽस्य' (२191१०८) अलोपः ।।छ।।
P卐 उत्क्रान्तं दाम यया या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org