SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ।। शुनी] 'ट्वोश्चि गति-वृद्धयोः' (९९७) श्चि । श्वयतीति । 'श्वन्-मातरिश्वन्-मूर्धन्-पीहन्नर्यमन् - विश्वप्सः-परिज्वन्महन्नहन्-मघवन्नथर्वन्निति' (उणा० ९०२) अन्प्र० - अन्तलोपश्च । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) डी । 'श्वन-युवन्मघोनो०' (२१११०६) व०-→उ० । [अतिशुनी] श्वानमतिक्रान्ता सा । [मघोनी] 'मघुङ् कैतवे च' (६४१) मघ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) मध् । मङ्यते मघवा = इन्द्रः, स्त्री चेत् । श्वन-मातरिश्वन-मूर्धन्-पीहन्नर्यमन्-विश्वप्सः-परिज्वन्-महन्नहन्-मघवन्नथर्वन्निति' (उणा० ९०२) अन्प्र०-मधेर्नलोपोऽव् चान्तः । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२१४१) डीप्र० । 'श्वन-युवन-मघोनो डीस्याद्यघुट्स्वरे व उः' (२११११०६) व० उ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ओ छ।। वा बहुव्रीहे: ।।२।४।५।। [प्रियावावरी, प्रियावावा स्त्री प्रिय ‘ओण अपनयने' (२७३) ओण् । ओणतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।११४७) वन्प० । 'वन्याङ् पञ्चमस्य' (४।२।६५) ण०→आ० । 'ओदौतोऽवाव्' (१।२।२४) अव् । प्रियोऽवावा यस्याः सा । अनेन ङी - न०→र० । द्वितीये सर्वत्र 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याव०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । [बहुधीवरी, बहुधीवा] बहु 'डुधांग्क् धारणे च' (११३९) धा । दधातीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) वनप्र० । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ०→ई० । बहवो धीवानो यस्यां सा । अनेन डी - न०→२० । [बहुमेरुदृश्वरी, बहुमेरुदृश्वा स्त्री] बहु मेरु 'दृशुं प्रेक्षणे' (४९५) दृश् । मेरुं दृष्टवतीति । ‘दृशः क्वनिप्' (५।११६६) . क्वनिप्प०→वन् । बहवो मेरुदश्वानो यस्यां सा । अनेन डी - न०→र० । [प्रिययज्चा स्त्री] प्रिय 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । इष्टवान् । 'सु-यजोवनिप्' (५।१।१७२) इवनिपप्र०→वन् । प्रियो यज्वा यस्याः सा | प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१९१) नलोपः ॥छ।। वा पादः ।।२।४।६।। [द्विपदी, द्विपात्] 'पदिंच गतौ' (१२५७) पद् । पद्यते-पत्स्यते-अपादि-पेदे वा पाद: । 'पद-रुज-विश-स्पृशो घा' (५।३।१६) घञ्प्र० । द्वौ पादौ यस्याः सा । 'सु-संख्यात्' (७।३।१५०) पादस्य पाद् । अनेन डी । 'य-स्वरे पाद: पदणिक्य-घुटि' (२।१।१०२) पाद०→पद्० । द्वितीये 'विरामे वा' (१३५१) द०→त० । [त्रिपदी, त्रिपात्] त्रयः पादाः यस्याः सा । शेषं 'द्विपदी-द्विपात्' वत् । [त्रिपात स्त्री] पादमाचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र०→इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । पादयतीति क्विप् । ‘णेरनिटि' (४।३।८३) णिच्लोपः । 'अप्रयोगीत्' (१।१।३७) क्विपलोपः । त्रयः पादोऽस्याः सा । प्रथमा सि । दीर्घड्याब्०' (१।४।४५) सिलोपः ।।छ।। ऊध्नः ||२|४|७|| [कुण्डोध्नी] कुण्ड-ऊधस् । कुण्डवत् ऊधो यस्याः सा । 'स्त्रियामूधसो न्' (७।३।१६९) ऊधस्० → ऊधन् । अनेन डी । 'अनोऽस्य' (२।१।१०८) अलोपः । [घटोध्नी] घट - ऊधस् । घटवत् ऊधो यस्याः सा । 'स्त्रियामूधसो न्' (७।३।१६९) ऊधस् → ऊधन् । अनेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy