SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [सुहिंसौ स्त्रियौ] सुष्ठु हिंस्त इति क्विप् = सुहिंसौ । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।।छ।। अञ्चः ।।२।४।३।। [प्राची] प्र 'अशू गती च' (१०५) अञ्च । प्राशतीति क्विप् । 'अञ्चोऽनर्चायाम' (४।२।४६) नलोपः । अनेन डी । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च० - पूर्विला दीर्घः । [प्रतीची] प्रति ‘अचू गतौ च' (१०५) अञ्च् । प्रत्यञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन डी । ‘अच्च् प्राग् दीर्घश्च' (२।११०४) अच्० → च० - पूर्विला दीर्घः । [अपाची] अप 'अञ्च गतौ च' (१०५) अञ्च । अपाञ्चतीति क्विप् । 'अशोऽनर्चायाम' (४।२।४६) नलोपः । अनेन डी । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च० - पूर्विला दीर्घः । [उदीची] उत् 'अञ्चू गतौ च' (१०५) अश् । उदञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अनेन डी । 'उदच उदीच्' (२।१।१०३) उदच्० → उदीचादेशः ।।छ।। ण-स्वरा-ऽघोषाद् वनो रश्च ।।२।४।४।। [णस्वराघोषाद्] णश्च स्वरश्च अघोषश्च = णस्वराघोषम्, तस्मात् । [अवावरी] 'ओण अपनयने' (२७३) ओण् । ओणतीति । 'मन्-वन्-क्वनिप्-विच क्वचित्' (५।१।१४७) वन्प्र० । 'वन्याङ् पञ्चमस्य' (४।२।६५) ण०-आ० । ‘ओदौतोऽवाव्' (१।२।२४) अव् । अनेन डी - न०→र० । [धीवरी] 'डुधांग्क् धारणे च' (११३९) धा । दधातीति । 'मन्-वन्-क्वनिप्-विच क्वचित्' (५।१।१४७) क्वनिप्प० → वन् । ईर्व्यञ्जने० (४।३।९७) आ०→ई० । अनेन डी - न०→र० । [अतिधीवरी] धीवानमतिक्रान्ता सा । अनेन डी । [पीवरी] 'पां पाने' (२) पा । पिबतीति । ‘मन्-वन्-क्वनिप्०' (५।१।१४७) क्वनिप्प०-→वन् । ईर्व्यञ्जने० (४।३।९७) आ०→ई० । अनेन डी - न०० । सहकृत्वरी] सह 'डुकंग करणे' (८८८) कृ । सह करोतीति । 'सह-राजभ्यां कृग्-युधेः' (५।१।१६७) क्वनिप्प्र० → वन् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । अनेन डी - न०र० । सुत्वरी] 'धुंगट अभिषवे' (१२८६) षु । 'षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) सु । सुनोतीति । 'सु-यजोवनिप्' (५1१1१७२) ड्वनिप्प्र०→वन् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । अनेन डी - न०र० । [मेरुदृश्वरी मेरु 'दृशं प्रेक्षणे' (४९५) दृश् । मेरुं दृष्टवान् । 'दृशः क्वनिप्' (५।१।१६६) क्वनिप्प्र०→वन् । अनेन डी - न०→० । [सहयुध्वा] सह 'युधिंच् सम्प्रहारे' (१२६०) युध् । सह युध्यति(ते) । 'सह-राजभ्यां कृग-युधेः' (५।११६७) स्वनिप्प०→वन् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [यज्चा स्त्री] यजी देवपूजा-सङ्गतिकरण-दानेषु (९९१) यज् । इष्टवान् = यज्वा । ‘सु-यजोवनिप्' (५।१।१७२) ड्वनिप्प्र०--→वन् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [शर्वरी] 'शृश् हिंसायाम्' (१५३१) शू । शृणातीति । ‘मन-वन् क्वनिप्-विच्-क्वचित्' (५।१।१४७) वन्प्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy