________________
१४१
टिच्च
[ बहुदा भूमिः ] बहवो नदा यस्यां सा । 'आत्' (२|४|१८) आप् ॥ छ ॥
अण्-न-न-टिताम् ।।२।४।२०।।
[ अणञेयेकण्नञ्स्नञ्टिताम्] ट् इद् अनुबन्धो यस्याऽसौ टित् । अण् च अञ् च एयश्च इकण् च नञ् च स्रञ् च अणञेयेकण्नञ्स्नञ्टितस्तेषाम् ।
=
[ औपगवी] गोः समीपं = उपगुः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । उपगोरपत्यं स्त्री । 'डसोऽपत्ये' (६।१।२८) अणुप्र० । ' वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७|४|१) वृ० औ । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् ।
[ तापसी] तपस् । तपोऽस्याऽस्तीति तापसी । 'ज्योत्स्रादिभ्योऽण्' ( ७ । २ । ३४) अण्प्र० । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । अनेन डी ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[कुम्भकारी ] कुम्भ 'डुकंग् करणे' (८८८ ) कृ । कुम्भं करोतीति । 'कर्मणोऽण् ' ( ५।१।७२ ) अण्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अनेन ङी ।
[ काण्डलावी याति ] काण्ड 'लूग्श् छेदने' (१५१९) लू । काण्डं लुनातीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अनेन डी ।
[औत्सी] उत्स । उत्सस्याऽपत्यम् । 'उत्सादेरञ्' (६।१।१९) अञ्प्र० अ । 'वृद्धिः स्वरेष्वादेः' (७।४।१) वृ० औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन ङी ।
[वैदी] विद । विदस्याऽपत्यं वृद्धं स्त्री । 'विदादेर्वृद्धे' (६।१।४१) अञ्प्र० अ । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृ० ऐ । 'अवर्णवर्णस्य' (७|४|६८) अलोपः । अनेन डी ।
[छात्री] छत्रं शीलमस्य । 'अड्स्थाच्छत्राऽऽदेरञ्' (६।४।६० ) अञ्प्र० । ' वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृ० आ । 'अवर्णवर्णस्य (७।४।६८) अलोपः । अनेन ङी ।
[चौरी] चुरा शीलमस्य । 'अस्थाच्छत्राऽऽदेरञ्' (६।४।६०) अञ्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृ० औ । 'अवर्णवर्णस्य' ( ७|४|६८ ) आलोपः । अनेन ङी ।
[तापसी] तपः शीलमस्य । 'अस्थाच्छत्रादेरञ्' (६।४।६०) अञ्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृ० आ । अनेन ङी ।
[सौपर्णेयी] सुपर्ण्याः अपत्यम् । 'ड्याप्त्यूडः ' ( ६।१।७०) एयणप्र० एय । ' वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' ( ७|४|१) वृद्धिः औ । अनेन ङी ।
[वैनतेयी] विनता । विनताया अपत्यम् । 'ड्याप्-त्यूङ: ' ( ६।१।७० ) एयण्प्र० एय । वृद्धिः स्वरेष्वादे० ' (७।४।१) वृ० ऐ । अनेन ङी ।
[शिलेयी, शैलेयी] शिलायास्तुल्या । ' शिलाया एयच्च' (७।१।११३) एयच् - एयञ्प्र० एय । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृ० ऐ ।
P
[ आक्षिकी] अक्ष । अक्षैर्दीव्यतीति । तेन जित - जयद् - दीव्यत् खनत्सु' (६।४।२ ) इकण्प्र० इक । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृ० आ ।
उपगता गौर्येन सः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org