________________
।। अर्हम् ॥
॥ अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
स्त्रियां नृतोऽस्वस्रादेर्डीः ।।२।४।१।। [स्त्रियाम्] स्त्री सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९) दाम् → आम् । 'स्त्रियाः' (२१५४) इय् । [नृतः] न च ऋच्च = नृत्, तस्मात् ।
[अस्वस्रादेः] स्वसा आदिर्यस्याऽसौ स्वसादिः । न स्वस्रादि: = अस्वस्रादिः । 'नञत्' (३।२।१२५) न० अ०, तस्मात् ।
[अतिराज्ञी] 'राजृग् दीप्तौ' (८९३) राज् । राजते-शोभते छत्रचामरादिभिरिति राजा । 'उक्षि-तक्ष्यक्षीशि-राजि-धन्विपशि-पूषि-क्लिदि-निहि-नु-मस्जेरन' (उणा० ९००) अनुप्र० । राजानमतिक्रान्ता (या) सा अतिराज्ञी । अनेन डी । 'अनोऽस्य' (२११।१०८) अलोपः । 'तवर्गस्य श्चवर्ग०' (११३।६०) न०० ।
[दण्डिनी] दण्डो विद्यते यस्याः सा | ‘अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अनेन डी ।
[छत्रिणी] छत्रं विद्यते यस्याः सा । ‘अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अनेन डी । 'रघुवर्णान्नो ण०' (२।३।६३) न०→ण ।
[कर्ती] 'डुकृग् करणे' (८८८) कृ । करोतीति । ‘णक-तृचौ' (५।१।४८) तृच्प नेतृ । अनेन डी । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[हीं] ‘हंग् हरणे' (८८५) हृ । हरतीति । ‘णक तृचौ' (५।१।४८) तृच्प्र० → तृ । अनेन डी । ‘नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[अतिस्वसा] स्वसारमतिक्रान्ता (या) सा । प्रथमा सि । 'ऋदुशनस-पुरुदंशो-ऽनेहसश्च सेर्डाः' (१।४।८४) सि०→डा० →आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[परमस्वसा] परमा चासौ स्वसा च = परमस्वसा ।
[तिस्रः] त्रि प्रथमा जस् । द्वितीया शस् । 'त्रि-चतुरस्तिसृ-चतसृ स्यादौ' (२०११) तिसृ । 'ऋतो रः स्वरेऽनि' (२०१२) र० ।
P卐 पूजितो राजा = अतिराजा, स्त्री चेत् अतिराज्ञी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org