________________
१३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका ।
[पांसुलः, पांसुरः] पांसु । पांसुरत्राऽस्ति । 'मध्वादिभ्यो रः' (७।२।२६) रप्र० ।
लेखा, रेखा] रिखि-लिखि समानार्थः सौत्रः ।
[लिक्षा, रिक्षा] 'रिष हिंसायाम्' (५१५) रिष् । रिष्यते इति । 'ऋजि-रिषि-कुषि-वश्च्युन्दि-शृभ्यः कित्' (उणा० ५६७) कित् सप्र० । 'ष-ढोः कस्सि' (२।१।६२) १०→क० । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) स०→ष० । क-षसंयोगे क्ष । 'आत्' (२।४।१८) आप् । 'समानानां०' (१।२।१) दीर्घः ।
लोहितम, रोहितम] 'रुहं जन्मनि' (९८८) रुह । रोहति = प्रादुर्भवति रोहितम् । 'हृ-श्या-रुहि-शोणि-पलिभ्य इतः' (उणा० २१०) इतप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[इला भूमिः, इरा अमृतम्] 'इंण्क् गतौ' (१०७५) इ । एतीति । 'इण-धाग्भ्यां वा' (उणा० ३८९) किद् रप० । 'आत्' (२।४।१८) आप् ।
तल्पलो गजपृष्ठैकदेशः, तर्परः पशूनां कण्ठ्यण्टः] 'तृपौच प्रीतौ' (११८९) तृप् । तल्पतीति (तृप्यतीति) । 'जठरक्रकर-मकर-शंकर-कर्पर-कुर्पर-तोमर-पामर-प्रादमर-सगर०' (उणा० ४०३) तर्परनिपातः ।
[बडिशम्, बलिशम्] बडिशं = मत्स्यबन्धनम् ।
[डिण्डिमः] डिण्डिमेति ध्वनिमततीति । 'क्वचित्' (५।१।१७१) डप्र० । 'डिम हिंसायाम्' (सौत्रो धातुः ५४) डिम् । डेमति । 'डिमेः कित्' (उणा० ३५६) किद् डिमप्र० ।।छ।।
जपादीनां पो वः ।।२।३।१०५।। [जपादीनाम्] जपा आदिर्येषां ते = जपादयस्तेषाम् । [पारापतः] पार ‘पत्तृ गतौ' (९६२) पत्, आङ्यूर्व० । पारमापततीति । 'लिहादिभ्यः' (५।१।५०) अच्प्र० ।।छ।।
द्वितीयस्याऽध्यायस्य तृतीयः पादः समाप्तः ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org