SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ।। १२५ [चतुरङ्गयोगेन] चतुर्णामङ्गानां योगः = चतुरङ्गयोगस्तेन । [भर्तृवाहुयुग्मेन] भर्तुर्बाहुः = भर्तृवाहुः, भर्तृवाहोर्युग्मं = भर्तृबाहुयुग्मम्, तेन । [रोषभीममुखेन] रोषेण भीमं मुखं यस्याऽसौ, तेन । [प्राणद्धम्] प्राणह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । ‘अदुरुपसर्गा-ऽन्तरो ण-हिनु-मीना-ऽऽनेः' (२।३।७७) णत्वम् । [प्रण्यास्यति प्र-नि-आङ् 'असूच क्षेपणे' (१२२१) अस् । वर्त्त० तिव् । 'दिवादे: श्यः' (३।४।७२) श्यप्र०य । [आर्द्रगोमयेण] गोः पुरीषम् । 'गोः पुरीषे' (६।२।५०) मयट्प्र०→मय । आर्द्धं च तद् गोमयं च = आर्द्रगोमयं, तेन । 'कवर्गकस्वरवति' (२३७६) णत्वम् । [शुष्कगोमयेण] शुष्कं च तद् गोमयं च = शुष्कगोमयं, तेन । [परमापूपमयेण] परमश्चासावपूपश्च = परमापूपः, परमापूपेन प्रकृतम् । 'प्रकृते मयट्' (७।३।१) मयट्प्र०→मय, तेन । यूषयावकेण] यवानां विकारः = यावः । 'विकारे' (६।२३०) अण्प०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । याव एव = यावकः । ‘यावादिभ्यः कः' (७।३।१५) कप्र० । यूषेण मांसमुद्गादिरसेन मिश्रः यावकः = यूषयावकस्तेन छ। हनो घि ||२।३।९४॥ [वृत्रघ्ना] वृत्र 'हनंक हिंसा-गत्योः ' (११००) हन् । वृत्रं हतवान् = वृत्रहा । 'ब्रा-भ्रूण-वृत्रात् क्विप्' (५।१।१६१) क्विप्र० । 'अप्रयोगीत्' (१1१1३७) विप्लोपः । 'हनो हुनो नः' (२१११११२) न, तेन । 'अनोऽस्य' (२११११०८) अलोपः । [वृत्रघ्ने] वृत्रं हतवान् = वृत्रहा । 'ब्रह्म-भूण-वृत्रात् क्विप्' (५1१1१६१) क्विप्र० । 'अप्रयोगीत्' (१1१1३७) क्विपलोपः, तस्मै । 'अनोऽस्य' (२191१०८) अलोपः । 'हनो हुनो नः' (२१११२) न् । [ब्रह्मघ्नः] ब्रहा हतवान् । 'ब्रह्मादिभ्यः' (५।११८५) टकप्र०→अ । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्डिति लुक' (४।२।४४) अलोपः । 'हनो नो घ्नः' (२।१।११२) नादेशः । [शत्रुघ्नः] शत्रु हतवान् । 'ब्रह्मादिभ्यः' (५।१।८५) टक्प०→अ । गम-हन-जन० (४।२।४४) अलोपः । ‘हनो ह्नो नः' (२११११२) नादेशः । [प्रघ्नन्ति प्र-हन् । वर्त० अन्ति । गम-हन-जन-खन० (४।२।४४) अलोपः । 'हनो हुनो नः' (२।१।११२) घनादेशः । [प्रानन] प्र-हन । हस्तनी अन् । 'गम-हन-जन०' (४।२।४४) अलोपः । 'हनो हनो नः' (२।१।११२) घनादेशः । 'अड् धातोरादि०' (४।४।२९) अडागमः । [प्राघानि] प्र-हन् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच्-तलोपश्च । 'ञि-णवि घन्' (४।३।१०१) घनादेशः । 'अड् धातोरादि०' (४।४।२९) अडागमः । [प्रघानिष्यते] प्र-हन् । भविष्यन्ती स्यते । ‘स्वर-ग्रह-दृश-हन्भ्यः-स्य-सिजाशीः-श्वस्तन्यां जिट् वा' (३।४।६९) जिट्प्र० →इ । 'जि-णवि घन्' (४।३।१०१) घनादेशः । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy