________________
१२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[अन्तर्णमनो देशः] अन्तर् ‘णमं प्रहत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । अन्तर्णम्यतेऽस्मिनिति । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र०→अन ।छ।।
षात पदे ।।२।३।९२।। [सर्पिष्पानम्] सर्पिस् ‘पां पाने' (२ ) पा । पीयते । ‘अनट्' (५।३।१२४) अनट्प्र०→अन । सर्पिषः पानम् । 'समासेऽसमस्तस्य' (२।३।१३) २०→ष० ।
[यजुष्पानम्] यजुस्-पान । यजुषः पानम् ।
[दुष्पानम्] दुर्-पान । दुष्टं पानम् ।
[निष्पानम्] निश्चितं पानम् ।
[निष्पायनम्] निःपिबन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प०→इ । 'आत ऐः कृऔ' (४।३।५३) आ०→ऐ० । 'एदैतोऽयाय' (१२।२३) आय् । निःपाय्यते । 'अनट्' (५।३।१२४) अनट्प्र०→अन । 'णेरनिटि' (४।३।८३ णिगलोपः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२०३९) र०→ष० ।
[निर्णयः] निर् ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । निर्न(ण)यनम् । 'युवर्ण-वृदृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प०→अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय । 'अदुरुपसर्गान्तरो ण-हिनु-मीना-55नेः' (२।३७७) न०→ण० ।
[निर्याणम्] निर् ‘यांक प्रापणे' (१०६२) या । निर्यायते । ‘अनट्' (५।३।१२४) अनटप्र०→अन । 'स्वरात्' (२।३८५) न०→ण० ।
[पुष्णाति] 'पुषश् पुष्टौ' (१५६४) पुष् । वर्त्तः तिव् । 'ज़्यादेः' (३।४।७९) श्नाप्र०→ना । 'रघुवर्णान्नो ण०' (२।३।६३) न०→ण० ।
[सर्पिष्केण] 5 सर्पिष इदम् । ‘यावादिभ्यः कः' (७।३।१५) कप० । 'नामिनस्तयोः षः' (२।३।८) र०→ष०, . तेन ॥छ।।
पदेऽन्तरेऽनाङ्यतद्धिते ।।२।३।९३।। [पदेऽन्तरेऽनायतद्धिते] पदे अन्तरं करोतीति । 'णिजबहुलं नाम्नः कृगादिषु' (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । अन्तरयतीति । 'अच्' (५।१४९) अच्प्र०→अ । सप्तमी ङि, अन्तरे मध्यस्थेत्यर्थः । न आङ् = अनाङ् । 'अन् स्वरे' (३।२।१२९) अन्, तस्मिन् । न तद्धितोऽतद्धितः । 'नञत्' (३।२।१२५) न०→अ०, तस्मिन् ।
[प्रावनद्धम्] प्र-अव ‘णहीच बन्धने' (१२८५) णह् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नह । प्रावनाते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र०→त । 'नहाऽऽहोर्ध-तौ' (२।१८५) ह०→ध० । 'अधश्चतुर्थात्०' (२।१७९) त०→ध० | 'तृतीयस्तृ०' (१।३।४९) ध०→द० ।
P) कुत्सितमल्पमज्ञातं वा सर्पिः = सर्पिष्कम् । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्प्र०-→क । 'सो रुः' (२।१।७२) रुत्वम् । ___'नामिनस्तयोः षः' (२।३।८) षत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org