________________
अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥
१२३
→इ । 'अर्ति-री-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । प्रख्याप्यते । ‘अनट्' (५।३।१२४) अनट्प्र०→अन । 'णेरनिटि' (४।३।८३) णिगलोपोऽग्रे सर्वत्र ।
[प्रपावनम] प्र 'पूगश पवने' (१५१८) पू । प्रपुनन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र०→इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । प्रपाव्यते । 'अनट्' (५।३।१२४) अनट्प्र० →अन ।
[प्रभावना] प्र 'भू सत्तायाम्' (१) भू । प्रभवन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०→इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्रभाव्यते । णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः (५।३।१११) अनप्र० । 'आत्' (२।४।१८) आप् ।
प्रभापना] प्र ‘भांक दीप्तौ' (१०६१) भा । प्रभान्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०→इ । 'अर्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । प्रभाप्यते । “णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः' (५।३।१११) अनप्र० । 'आत्' (२।४।१८) आप् ।
[प्रकामना] प्र 'कमङ कान्तौ' (७८९) कम | 'कमेर्णिङ (३।४।२) णिङप्र० → इ । 'णिति' (४१३५०) उपान्त्यवृद्धिः । प्रकाम्यते । 'णि-वेत्त्यास-श्रन्थ-घट्ट-वन्दरनः' (५।३।१११) अनप्र० । 'आत्' (२।४।१८) आप् ।
[प्रगमना] प्र ‘गम्लुं गतौ' (३९६) गम् । प्रगच्छन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र०→इ । 'ज्णिति' (४।३।५०) उपान्त्यवृद्रिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । प्रगम्यते । 'णि-वेत्त्यास०' (५।३।१११) अनप्र० । 'आत्' (२।४।१८) आप् ।
[प्रप्यायना] प्र ‘ओप्यायैङ् वृद्धौ' (८०५) प्याय् । प्रप्यायमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० →इ । प्रप्याय्यते । “णि-वेत्त्यास०' (५।३।१११) अनप्र० । 'आत्' (२।४।१८) आप् ।
[प्रवेपना] प्र ‘टुवेपृङ् चलने' (७५४) वेप् । प्रवेपनं(मानं) प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० →इ । प्रवेप्यते । ‘णि-वेत्त्यास-श्रन्थ-घट्ट०' (५।३।१११) अनप्र० । 'आत्' (२।४।१८) आप् ।।छ।।
देशेऽन्तरोऽयन-हनः ।।२।३।९१।। [अयनहनः] अयनश्च हन् च = अयनहन्, तस्य ।
[अन्तरयनो देशः] अन्तर् ‘अयि गतौ' (७९०) अय् । अन्तरय्यतेऽस्मिन्निति । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र०→अन ।
[अन्तर्हननो देशः] अन्तर् ‘हनं हिंसा-गत्योः' (११००) हन् । अन्तर्हन्यतेऽस्मिन्निति । ‘करणा-ऽऽधारे' (५।३।१२९) अनट्प०→अन ।
[अन्तरयणं वर्तते] अन्तरय्यते । 'अनट्' (५।३।१२४) अनट्प०अन । 'स्वरात्' (२।३।८५) इति णत्वम् ।
[अन्तर्हण्यते] अन्तर् ‘हनंक हिंसा-गत्योः' (११००) हन् । 'क्यः शिति' (३।४।७०) क्यप्र०→य । 'हनः' (२।३।८२) इति णत्वम् ।
[अन्तर्घणो देशः] अन्तर्हण्यतेऽस्मिन्निति । 'हनोऽन्तर्घनाऽन्तर्घणौ देशे' (५।३।३४) निपातः । [प्रायणो देशः] प्र ‘अयि गतौ' (७९०) अय् । प्राय्यतेऽस्मिन्निति । करणा-55धारे' (५।३।१२९) अनट्प्र०→अन । [प्रहणनो देशः] प्रहन्यतेऽस्मिन्निति । 'करणा-5ऽधारे' (५।३।१२९) अनट्प्र०→अन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org