________________
१२२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[प्रभानीयम्] प्रभायते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० ।
[प्रकमनम] प्र 'कमङ कान्तौ' (७८९) कम । 'कमेर्णिङ' (३।४।२) णिडप्र० इ । 'णिति' (४१३५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । प्रकाम्यते । 'अनट्' (५।३।१२४) अनटप्र०-→अन । ‘णेरनिटि' (४।३।८३) णिड्लोपः ।
[प्रकम्यमानम्] प्रकाम्यते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र०→आन । 'क्यः शिति' (३।४।७०) क्यप्र० →य । ‘अतो म आने' (४।४।११४) मोऽन्तः ।
[प्रकामिनौ] प्रकाम्येते इत्येवंशीलौ । 'अजातेः शीले' (५।११५४) णिन्प्र०→इन् । ‘णेरनिटि' (४।३।८३) णिड्लोपः ।
[अप्रकमनिः] अप्रकमनं ते भूयात् । ‘नोऽनिः शापे' (५।३।११७) अनिप्र० । [प्रकमनीयम्] प्रकाम्यते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । 'णेरनिटि' (४।३।८३) णिडलोपः ।
[प्रगमनम्] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम्, प्रपूर्व० । प्रगम्यते । 'अनट' (५।३।१२४) अनट्प्र०→अन ।
[प्रगम्यमानम्] प्रगम्यते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्→आन । 'क्यः शिति' (३।४।७०) क्यप्र०→य । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[प्रगामिनी] प्रगच्छत इत्येवंशीलौ । 'अजातेः शीले' (५।११५४) णिन्प्र०-→इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [अप्रगमनिः] न प्रगमनं ते भूयात् । ‘नोऽनिः शापे' (५।३।११७) अनिप्र० । [प्रगमनीयम्] प्रगम्यते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० ।
[प्रप्यानः] स्फायैङ् (८०४) - ‘ओप्यायै वृद्धौ' (८०५) प्याय, प्रपूर्व० । प्रप्यायते । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० →त । 'व्यञ्जनान्तस्थाऽऽतोऽरव्या-ध्यः' (४।२७१) त०→न० । 'य्वोः प्वयव्यञ्जने लुक' (४।४।१२१) यलोपः ।
[प्रप्यायमानम] प्रप्यायते । ‘शत्रानशावेष्यति०' (५।२।२०) आनश्प्र०→आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[प्रप्यायिनौ] प्रप्यायेते इत्येवंशीलौ । 'अजातेः शीले' (५।११५४) णिन्प्र०→इन् । [अप्रप्यायनिः] अप्रप्यायनं ते भूयात् । 'नञोऽनिः शापे' (५।३।११७) अनिप्र० । [प्रप्यायनीयम्] प्रप्यायते । तव्या-ऽनीयौ (५।१।२७) अनीयप्र० । [प्रवेपनम्] 'टुवेपृङ् चलने' (७५४) वेप्, प्रपूर्व० । प्रवेप्यते । ‘अनट्' (५।३।१२४) अनट्प्र०→अन ।
[प्रवेपमानम्] प्रवेप्यते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र०→आन । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[प्रवेपिनौ] प्रवेपत इत्येवंशीलौ । 'अजातेः शीले' (५।१।१५४) णिन्प्र०→इन् । [अप्रवेपनिः] न प्रवेपनं ते भूयात् । ‘नोऽनिः शापे' (५।३।११७) अनिप्र० । [प्रवेपनीयम्] प्रवेप्यते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । [प्रख्यापनम् प्र ‘ख्यांक प्रकथने' (१०७१) ख्या । प्रख्यान्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org