SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥ शव् । 'अतो म आने' ( ४|४|११४ ) मोऽन्तः । [प्रेङ्खिणौ] प्रेङ्खत इत्येवंशीलौ । 'अजातेः शीले' (५।१।१५४) णिन्प्र० इन् । प्रथमा औ । [प्रेङ्गिणी] प्रेङ्गत इत्येवंशीलौ । 'अजातेः शीले' (५।१।१५४) णिन्प्र० - इन् । प्रथमा औ । [अप्रेङ्खणिः] अप्रेङ्खणं ते भूयात् । ' नञोऽनिः शापे' (५।३।११७) अनिप्र० । [अप्रेङ्गणिः ] अङ्गणं ते भूयात् । 'नञोऽनिः शापे' (५।३।११७) अनिप्र० । [प्रेङ्खणीयम् ] प्रेङ्ख्यते । 'तव्या - ऽनीयौ' (५।१।२७) अनीयप्र० । [प्रेङ्गणीयम् ] प्रेङ्ग्यते । 'तव्याऽनीयौ ' ( ५।१।२७) अनीयप्र० । [प्रमङ्गनम् ] 'मगु गतौ' (८५) मग्, प्रपूर्व० । 'उदितः स्वरान्नोऽन्तः ' ( ४।४।९८) नोऽन्तः । प्रमङ्ग्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । ११९ [ प्रकम्पनम् ] 'कपुङ् चलने' (७५७) कप् प्रपूर्व० । 'उदितः स्वरान्नोऽन्तः' ( ४ १४ ९८ ) नोऽन्तः । प्रकम्प्यते । 'अनट्' (५|३|१२४) अनट्प्र० अन । [हणम् ] प्र 'ईहि चेष्टायाम्' (८५७) ह् । प्रेते । 'अनट्' (५|३|१२४) अनट्प्र० अन । [प्रोहणम् ] प्र ' ऊहि वितर्के' (८७० ) ऊह् । प्रोह्यते । 'अनट्' (५|३|१२४) अनट्प्र० - अन ।।छ। व्यञ्जनादेर्नाम्युपान्त्याद् वा ||२ १३ १८७ || [व्यञ्जनादेः ] व्यञ्जनमादिर्यस्याऽसौ व्यञ्जनादिः तस्मात् । [नाम्युपान्त्यात्] नामी उपान्त्ये यस्याऽसौ नाम्युपान्त्यः तस्मात् । [ प्रमेहणम्, प्रमेहनम् ] प्र ' मिहं सेचने' (५५१) मिह् । प्रमिह्यते । 'अनट्' (५|३|१२४) अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [ प्रकोपणम्, प्रकोपनम् ] प्र 'कुपच् क्रोधे ' (११९१) कुप् । प्रकुप्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । ‘लघोरुपान्त्यस्य’ (४।३।४) गु० ओ । [प्रगुप्यमाणम्, प्रगुप्यमानम् ] प्र 'गुपि गोपन- कुत्सनयो:' ( ७६३) गुप् । प्रगुप्यते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) आनश्प्र० आन । 'क्यः शिति' (३।४।७० ) क्यप्र० । 'अतो म आने' (४|४|११४) मोऽन्तः । [ प्रकोपण, प्रकोपनौ] प्रकुप्यत इत्येवंशीलौ । 'अजातेः शीले' (५।१।१५४) णिन्प्र० - इन् । ' लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । प्रथमा औ । [ अप्रकोपणिः, अप्रकोपनिः] अप्रकोपणं ते भूयात् । 'नञोऽनिः शापे' (५।३।११७) अनिप्र० । [ प्रकोपणीयम्, प्रकोपनीयम् ] प्रकुप्यते । 'तव्या ऽनीयौ' (५।१।२७) अनीयप्र० । [प्रवपणम् ] 'डुव बीजसन्ताने' (९९५) वप् प्रपूर्व० । प्रोप्यते । 'अनट्' (५|३|१२४) अनट्प्र० अन । [प्रवहणम् ] 'वहीं प्रापणे' (९९६) वह् प्रपूर्व० । प्रोह्यते । 'अनट्' ( ५ । ३ । १२४) अनट्प्र० अन । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । [दुर्मोहनः] दुर् 'मुहौच् वैचित्त्ये ' (१२३८) मुह् । दुर्मुह्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy