________________
WWWNM
१२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [दुहनः] दुर् ‘गुहौग संवरणे' (९३५) गुह् । दु:गुह्यते । ‘अनट्' (५।३।१२४) अनटप्र०-→अन । गोह: स्वरे' (४।२।४२) दीर्घः । .
[प्रभेदनम्] प्र ‘भिदूपी विदारणे' (१४७७) भिद् । प्रभिद्यते । 'अनट्' (५।३।१२४) अनटप्र०→अन । [प्रभोजनम्] प्र ‘भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । प्रभुज्यते । ‘अनट्' (५।३।१२४) अनटप्र०-→अन ।।छ।।
णेर्वा ||२।३।८८॥ [प्रमङ्गणा, प्रमङ्गना] प्र ‘मगु गतौ' (८५) मग् । ‘उदितः स्वरान्नोऽन्तः' (४।४।९८)नोऽन्तः । प्रमङ्गन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र०→इ । प्रमङ्गनम् । ‘णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः' (५।३।१११) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'आत्' (२।४।१८) आप् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न०→ड० ।
[प्रयापणम्, प्रयापनम्] प्र ‘यांक प्रापणे' (१०६२) या । प्रयान्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० →इ । 'अर्ति-री-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । प्रयाप्यते । 'अनट्' (५।३।१२४) अनट्प्र०→अन ।
[प्रयापिणौ, प्रयापिनौ] प्रयाप्यत इत्येवंशीलौ । 'अजातेः शीले' (५।१।१५४) णिन्प०→इन् । ‘णेरनिटि' (४।३।८३) णिगलोपः ।
[अप्रयापणिः, अप्रयापनिः] अप्रयापणं ते भूयात् । ‘नोऽनिः शापे' (५।३।११७) अनिप्र० । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[प्रयापणीयम्, प्रयापनीयम्] प्रयाप्यते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[प्रयाप्यमाणः, प्रयाप्यमानः] प्रयान्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प०→इ । 'अर्ति-री-ब्ली-हीक्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । प्रयाप्यते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प०→आन । 'क्यः शिति' (३।४७०) क्यप्र० → य । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[प्रदापनम्] प्र 'डुदांग्क् दाने' (११३८) दा । प्रददतं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प०→इ । 'अर्ति-री-क्ली-ही०' (४।२।२१) पोऽन्तः । प्रदाप्यते । 'अनट्' (५।३।१२४) अनट्प्र०→अन | ‘णेरनिटि' (४।३।८३) णिग्लोपः ।।छ।।
निर्विण्णः ।।२।३।८९॥ [निर्विण्णः प्रावाजीत्] 'विदिच्, सत्तायाम्' (१२५८) विद् । 'विद्रोंती लाभे' (१३२२) विद् । 'विदिप विचारणे' (१४९७) विद्, निरपूर्व० । निर्विद्यते स्म । निर्विन्दति स्म । निर्विन्ते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५/१1११) क्तप्र० →त । 'रदादमूर्छ-मदः क्तयोर्दस्य च (४।२।६९) द-त०→न० । तृतीये 'ऋ-ही-घ्रा-धा-त्रोन्द-नुद-विन्तेर्वा' (४।२७६) त० →न० । अनेन न०→ण० । 'तवर्गस्य श्चवर्ग०' (१३।६०) न०→ण० ।
निर्विण्णवान] 'विदक ज्ञाने' (१०९९) विद, निरपूर्व० । निर्वेत्ति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र०→तवत् । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त०→न० ।।छ।।
न ख्या-पूग-भू-भा-कम-गम-प्याय-वेपो णेश्च ।।२।३।९०।। [ख्यापूग्भूभाकमगमप्यायवेपः] ख्याश्च पूग् च भूश्च भाश्च कमश्च गमश्च प्यायश्च वेप् च == ख्यापूग्भूभाकमगमप्यायवेप्, तस्मात् । P5 ख्या च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org