SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अप्रयाणिः] अप्रयाणं ते भूयात् । 'नञोऽनिः शापे' (५।३।११७) अनिप्र० । [अपरियाणिः] अपरियाणं ते भूयात् । 'नञोऽनिः शापे' (५।३।११७) अनिप्र० । [प्रयाणीयम्] प्रयायते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । [परियाणीयम] परियायते । 'तव्या-ऽनीयौ' (५/११२७) अनीयप्र० । [प्रवहणीयम् 'वहीं प्रापणे' (९९६) वह, प्रपूर्व० । प्रोह्यते । 'तव्या-ऽनीयौ' (५।१।२७) अनीयप्र० । अनेन न० →ण० सर्वत्र । [प्रभुग्नः, प्रभुग्नवान्] प्र 'भुजोंत् कौटिल्ये' (१३५१) भुज् । प्रभुज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) त-तवत् । 'सूयत्याद्योदितः' (४।२७०) त०→न० । [क्तेऽनिटश्च-जोः क-गौ घिति' (४191१११) ज०→ग० ?] ('च-जः क-गम्' (२।१।८६) ज०→ग०) । [दुर्यानः पन्थाः] दुर् ‘यांक प्रापणे' (१०६२) या । दुःखेन यायते । 'शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः' (५।३।१४१) अनप्र० । [प्रवापेन] 'डुवपी बीजसन्ताने' (९९५) वप, प्रपूर्व० । प्रवपनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः, तेन । [प्रक्लृप्यमानम प्र 'कृपौङ् सामर्थ्य' (९५९) कृप् । प्रकल्पते । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प० →आन । 'क्यः शिति' (३।४७०) क्यप्र०य । 'अतो म आने' (४।४।११४) मोऽन्तः । मतान्तराभिप्रायेण ऋ(ल) मध्ये लकारो द्रष्टव्य इति व्यावृत्तेः साफल्यम् । [प्रेण्वनम, प्रेन्चनम् प्र 'इवु व्याप्तौ' (४८८) इव् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । 'प्रेन्च्यते । ‘अनट्' (५।३।१२४) अनटप०अन । [प्रदानम] प्र 'डुदांगक दाने' (११३८) दा । प्रदीयते । 'अनट्' (५।३।१२४) अनटप०→अन । [प्रधानम] प्र 'डुधांगक धारणे च' (११३९) धा । प्रधीयते । 'अनट्' (५।३।१२४) अनटप०अन ।।छ।। नाम्यादेरेव ने ।।२।३।८६।। [नाम्यादेः] नामी आदिर्यस्याऽसौ नाम्यादिः, म तस्य । [प्रेड्डणम्] उख (६३) - नख (६४) - णख (६५) - वख (६६) - मख (६७) - रख (६८) लख (६९) - मखु (७०) - रखु (७१) - लखु (७२) - रिखु (७३) इख (७४) - 'इखु गती' (७५) इख, प्रपूर्व० । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । प्रेङ्ख्यते । ‘अनट्' (५।३।१२४) अनटप्र० → अन । [प्रेङ्गणम्] प्र ‘इगु गतौ' (८७) इग् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । प्रेङ्ग्यते । ‘अनट्' (५।३।१२४) अनटप्र०-→अन । [प्रेट्माणः] प्रेङ्खतीत्येवंशीलः । 'वयः शक्ति-शीले' (५।२।२४) शानप्र०→आन । 'कर्त्तर्यनद्य. शव्' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । [प्रेङ्गमाणः] प्रेङ्गतीत्येवंशीलः । 'वयः शक्ति-शीले' (५।२।२४) शानप्र०-→आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) P॥ तस्मात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy