________________
अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥
११७
[प्रहण्मि, प्रहन्मि] प्र-हन् । वर्त० मिव् । अनेन । [प्राहण्महे, प्राहन्महे] प्र-आङ्, हन् । वर्त्त० महे । ‘आडझे यम०' (२।३।८६) आत्मनेपदम् । [अन्तर्हण्वः, अन्तर्हन्वः] अन्तर्-हन् । वर्त्त० वस् ।।छ।।
निस-निक्ष-निन्द: कृति वा ।।२।३१८४।। [निसनिक्षनिन्दः] निंसश्च निक्षश्च निन्द च = निंसनिक्षनिन्द, तस्य । [कृति] कृत् सप्तमी ङि । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः ।
[प्रणिंसनम, प्रनिसनम] प्र 'णिसुकि चुम्बने' (११२१) णिस् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निस् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । प्रणिस्यते । 'अनट् (५।३।१२४) अनट्प्र०→अन । अनेन ।
प्रणिक्षणम्, प्रनिक्षणम्] ‘णिक्ष चुम्बने' (५७३) णिक्ष् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निक्ष्, प्रपूर्व० । प्रनि(णि)क्ष्यते । ‘अनट्' (५।३।१२४) अनट्प्र०-अन |
[प्रणिन्दनम्, प्रनिन्दनम्] ‘णिदु कुत्सायाम्' (३११) णिद् । 'पाठे धात्वादेो नः' (२।३।९७) निद्, प्रपूर्व० । ‘उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । प्रनि(णि)द्यते । ‘अनट्' (५।३।१२४) अनट्प्र०→अन ।
[प्रणिस्ते] 'णिसुकि चुम्बने' (११२१) णिस् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निस, प्रपूर्व० । वर्त० ते । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । ‘अदुरुपसर्गा-ऽन्तरो ण-हिनु-मीना-ऽऽनेः' (२।३।७७) न०→ण० ।।छ।।
स्वरात् ।।२।३।८५।। [स्वरात्] स्वर पञ्चमी ङसि ।
[प्रहाणः प्रहाणवान] 'ओहां गतौ' (११३६) हा, प्रपूर्व० । प्रजिहीते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०-→त, क्तवतुप०-→तवत् । 'सूयत्याद्योदितः' (४।२।७०) त०→न० । अनेन न०→ण ।
[प्रहीणः] 'ओहांक त्यागे' (११३१) हा, प्रपूर्व० । प्रहीयते प्रजहाति स्म वा । 'क्त क्तवतू' (५।११७४) क्तप्र०नेत । 'सूयत्यद्योदितः' (४।२।७०) त०→न० । अनेन न०→ण० । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) ई० ।
परिहीण:] 'ओहांक त्यागे' (११३१) हा, परिपूर्व० । परिहीयते परिजहाति स्म वा । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० →त | 'सूयत्याद्योदितः' (४।२।७०) त०→न० । अनेन न०→ण । ईर्व्यञ्जनेऽयपि (४।३।९७) ई ।
[प्रगूणः, प्रगूणवान] प्र 'गुत् पुरीषोत्सर्गे' (१४२७) गु । प्रगुवति स्म । 'क्त-क्तवतू' (५।१।१७४) त-तवत् । 'दुगोरू च' (४।२।७७) त०→न० -ऊत्वं च ।
प्रियायमाणम. परियायमाणम] प्र-परि 'यांक प्रापणे' (१०६२) या । प्रयायते-परियायते । 'शत्रानशावेष्यति तु सस्यौ (५।२।२०) आनश्प०→आन । 'क्यः शिति' (३।४।७०) क्यप्र०→य । ‘अतो म आने' (४।४।११४) मोऽन्तः ।।
[प्रयायिणौ] प्रयान्तं प्रयुङ्क्ते (प्रयुञ्जाते) । 'अजातेः शीले' (५।१।१५४) णिन्प०→इन् । 'आत ऐः कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् ।
[परियायिणौ] परियान्तं प्रयुक्ते (प्रयुञ्जाते) । 'अजातेः शीले' (५११५४) णिन्प्र०→इन् । 'आत ऐः कृऔ' (४।३।५३) आ० →ऐ० । 'एदैतोऽयाय' (११२।२३) आय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org