SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । (४१३५०)' उपान्त्यवृद्धिः । अद्यतनी दि→त् । “णि-श्रि-द्रु-सु-कमः कर्तरि ङः' (३।४।५८) डप० । 'स्वराऽऽदेर्द्वितीयः' (४।१४) निद्विवचनम् । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः । [प्राणिति] प्र-अन् । वर्त० तिव् । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) इट् । अनेन न०→ण० । [पराणिति] परा ‘अन प्राणने' (१०८९) अन् । वर्तः तिव् । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) इट् । अनेन न० →ण० । [हे प्राण !] प्राणितीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । तस्य संबोधनम् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलोपः । हे पराण !] पराणितीति क्विप । 'अप्रयोगीत' (१1१1३७) क्विपलोपः । तस्य संबोधनम् । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । [पर्यणिणिषति, पर्यनिनिषति] परि-अन् । पर्यणितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'स्वराऽऽदेर्द्वितीयः' (४191४) निद्विवचनम् । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । अनेन । [पर्याणिणत्, पर्यानिनत्] परि-अन् । पर्यणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अद्यतनी दि→त् । 'णि-श्रि-दु-सु०' (३।४१५८) डप्र० । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) निद्विर्वचनम् । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः । अनेन । [पर्यणिति, पर्यनिति] परि-अन् । वर्तः तिव् । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) इट् । अनेन । [हे पर्यण !, हे पर्यन् !] परि-अन् । पर्यणितीति क्विप् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । तस्य संबोधनम् । प्रथमा सि । 'दीर्घयाब०' (१।४।४५) सिलोपः ।।छ।। हनः ।।२।३।८२॥ [प्रहण्यते, पराहण्यते, निर्हण्यते, अन्तर्हण्यते] प्र-परा-निर्-अन्तर् 'हनंक हिंसागत्योः' (११००) हन् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । [प्रहणनम्, पराहणनम्, निर्हणनम्, परिहणनम्, अन्तर्हणनम्] प्रहन्यते, पराहन्यते, निर्हन्यते, परिहन्यते अन्तर्हन्यते । 'अनट्' (५।३।१२४) अनटप्र०→अन । अनेन । [प्रजन्ति प्र-हन् । वर्त्त० अन्ति । ‘गम-हन-जन-खन-घसः स्वरेऽनङि क्डिति लुक् (४।२।४४) अलोपः । ‘हनो ह्नो नः' (२।१।११२) नादेशः । प्राघानि प्र-हन् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिचप्र०→इ - तलोपः । 'ञि-णवि घन' (४।३।१०१) घनादेशः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अड् धातोरादि०' (४।४।२९) अडागमः । [दुर्हनः] दुःखेन हन्यते ।।छ।। व-मि वा ।।२।३१८३।। [वमि] वश्च म् च = वम्, तस्मिन् । [प्रहण्वः, प्रहन्वः] 'हनंक हिंसा-गत्योः ' (११००) हन्, प्रपूर्व० । वर्त्त० वस् । अनेन | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy