________________
११४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
प्रणिवपति, परिणिवपति] 'डुवपी वीजसन्ताने' (९९५) वप, प्रनि-परिनिपूर्व० । वर्त० तिव । 'कर्त्तर्यनभ्यः शव्' (३।४।७१) शव् ।
[प्रणिवहति, परिणिवहति] 'वहीं प्रापणे' (९९६) वह्, प्रनि-परिनिपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[प्रणिशाम्यति, परिणिशाम्यति] 'शमू उपशमे' (१२३०) शम्, प्रनि-परिनिपूर्व० । 'दिवादे: श्यः' (३।४।७२) श्यप्र० →य । 'शम्सप्तकस्य श्ये' (४।२।१११) दीर्घः ।
[प्रणिचिनोति, परिणिचिनोति] 'चिंग्ट् चयने' (१२९०) चि, प्रनि-परिनिपूर्व० । वर्त्तः तिव् । 'स्वादे: श्नुः' (३।४।७५) श्नुप्र० → नु । 'उ-श्नोः ' (४।३।२) गु० ओ ।
[प्रणियाति, परिणियाति] 'यांक प्रापणे' (१०६२) या, प्रनि-परिनिपूर्व० । वर्त्तः तिव् । [प्रणिवाति, परिणिवाति] 'वांक गति-गन्धनयोः' (१०६३) वा, प्रनि-परिनिपूर्व० । वर्त्तः तिव् । [प्राणिद्राति, परिणिद्राति] 'द्रांक कुत्सितगतौ' (१०६६) द्रा, प्रनि-परिनिपूर्व० । वर्त्तः तिव् ।। [प्रणिप्साति, परिणिप्साति] अदं (१०५९) - 'प्सांक भक्षणे' (१०६०) प्सा, प्रनि-परिनिपूर्व० । वर्त० तिव् ।
[प्रणिस्यति, परिणिस्यति] 'षोंच् अन्तकर्मणि' (११५०) षो । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सो, प्रनिपरिनिपूर्व० । वर्त० तिव् । 'दिवादे: श्यः' (३।४।७२) श्यप्र०य । 'ओतः श्ये' (४।२।१०३) ओलोपः ।
[प्रणिहन्ति, परिणिहन्ति] 'हनं हिंसा-गत्योः' (११००) हन्, प्रनि-परिनिपूर्व० । वर्त्तः तिव् ।
[प्रणिदेग्धि, परिणिदेग्धि] 'दिहींक लेपे' (११२८) दिह्, प्रति-परिनिपूर्व० । वर्त्तः तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'भ्वादेर्दादेर्घः' (२।१।८३) ह०प० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ०→ग० ।
[प्रणिमाता] 'मांक मान-शब्दयोः' (११३७) मा, प्रनिपूर्व० । श्वस्तनी ता । [प्रणिदाता] 'डुदांग्क् दाने' (११३८) दा, प्रनिपूर्व० । श्वस्तनी ता ।
[अन्तर्णिमिमीते] 'मांक मान-शब्दयोः' (११३७) मा, अन्तर्निपूर्व० । वर्त्त० ते । 'हवः शिति' (४।१1१२) द्विवचनम् । 'हस्वः' (४।१।३९) ह्रस्वत् । 'पृ-भृ-मा-हाडामिः' (४।१।५८) इ । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई ।
[प्रनिवावपीति] 'डुवपी वीजसन्ताने' (९९५) वप्, प्रनिपूर्व० । भृशं पुनः पुनर्वा प्रणि(नि)वपति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यङश्च' (४।१।३) द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आगुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । वर्त० तिव् । 'यङ्-तु-रु०' (४।३।६४) ईत् →ई ।
[प्रणिमामाति, प्रणिमामेति] 'मांङ्क मान-शब्दयोः' (११३७) मा, प्रनिपूर्व० । भृशं पुनः पुनर्वा प्रणिमिमीते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । ‘सन्-यङश्च' (४।१।३) द्विवचनम् । ‘ह्रस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादे:' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । वर्त० तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत्-→ई । 'अवर्णस्ये०' (१।२।६) ए ।
[प्रनिमाति] प्रनि 'मांक माने' (१०७३) मा । वर्त० तिव् । [प्रनिमीनाति] प्रनि 'मींगश हिंसायाम' (१५१२) मी । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र०→ना । [प्रनिमिनोति] प्रनि 'डुमिंग्ट प्रक्षेपणे' (१२८९) मि । वर्त्तः तिव्' । 'स्वादेः श्नुः' (३।४।७५) श्नुप०→नु । 'उ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org