SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ।। ११३ [प्रनष्टः] प्रनश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिवाजः शः षः' (२।१।८७) श०→ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०→ट० । [प्रनक्ष्यति, परिनक्ष्यति] नश्, प्र-परिपूर्व० । भविष्यन्ती स्यति । 'नशो धुटि' (४।४।१०९) नोऽन्तः । यज-सृजमृज-राज०' (२191८७) श०→ष० । 'ष-ढोः कस्सि' (२११६२) ष०→क० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । ['शिड्-हेऽनुस्वारः' (१३१४०) अनुस्वारः ?] ('म्नां धुड्वर्गे०' (१।३।२९) न०ङ०) । क-षसंयोगे क्ष ।।छ।। नेमा-दा-पत-पद-नद-गद-वपी-वही-शमू-चिग्-याति-वाति-द्राति-प्साति-स्यति-हन्ति-देग्धौ ।।२।३।७९।। [ड्मादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ] डकारेणोपक्षितो मा = ड्मा, ड्माश्च दाश्च पतश्च पदश्च नदश्च गदश्च वपी च वही च शमू च चिग च यातिश्च वातिश्च द्रातिश्च प्सातिश्च स्यतिश्च हन्तिश्च देग्धिश्च = इमादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धि, तस्मिन् । [प्रणिमिमीते, परिणिमिमीते] 'मांक मान-शब्दयोः' (११३७)मा, प्रनि-परिनिपूर्व० । वर्त्त० ते । 'हवः शिति' (४।१।१२) द्विवचनम् । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'पृ-भृ-मा-हाडामिः' (४।११५८) इ । 'एषामी०' (४।२।९७) ई । [प्रणिमयते, परिणिमयते] 'मेङ् प्रतिदाने' (६०३) मे, प्रनि-परिनिपूर्व० । वर्त्त० ते । 'कर्त्तर्य०' (३।४।७१) शव । 'एदैतोऽयाय्' (१।२।२३) अय् । [प्रणिददाति, परिणिददाति] 'डुदांग्क् दाने' (११३८) दा, प्रनि-परिनिपूर्व० । वर्त्तः तिव् । 'हवः शिति' (४।१।१२) द्विर्वचनम् । 'हूस्वः' (४।१।३९) हूस्वत् ।। प्रणिदयते, परिणिदयते] 'दें पालने' (६०४) दे, प्रनि-परिनिपूर्व० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'एदैतोऽयाय' (१।२।२३) अय् । [प्रणियच्छति, परिणियच्छति] 'दां दाने' (७) दा, प्रनि-परिनिपूर्व० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'श्रौति-कृवु-धिवु-पा०' (४।२।१०८) यच्छादेशः । [प्रणिधति, परिणिद्यति] 'दोच् छेदने' (११४८) दो, प्रनि-परिनिपूर्व० । वर्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० →य । ‘ओतः श्ये' (४२११०३) ओलोपः । [प्रणिदधाति, परिणिदधाति] 'डुधांग्क् धारणे च' (११३९) धा, प्रनि-परिनिपूर्व० । वर्त्त तिव् । 'हवः शिति' (४।१।१२) धाद्विवचनम् । 'हस्वः' (४।१।३९) इस्वत् । 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) ध०→द० । [प्रणिधयति, परिणिधयति] 'ट्र्धे पाने' (२८) धे, प्रनि-परिनिपूर्व० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘एदैतोऽयाय्' (१।२।२३) अय् । [प्रणिपतति, परिणिपतति] 'पत्लु गतौ' (९६२) पत्, प्रनि-परिनिपूर्व० । वर्त्त० तिव् । 'कर्त्तर्य०' (३।४७१) शव् । [प्रणिपद्यते, परिणिपद्यते] 'पदिंच् गतौ' (१२५७) पद्, प्रनि-परिनिपूर्व० । वर्त्त० ते । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । [प्रणिनदति, परिणिनदति] ‘णद अव्यक्ते शब्दे' (२९९) णद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नद्, प्रनिपरिनिपूर्व० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [प्रणिगदति, परिणिगदति] ‘गद व्यक्तायां वाचि' (२९७) गद्, प्रनि परिनिपूर्व० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy