SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥ [दुरह्नः] दुष्टमहः = दुरह्नः । ‘सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽह्नाऽऽदेशश्च । [दीर्घाहनी शरत दीर्घाण्यहानि यस्यां सा | 'अनो वा' (२।४।११) डीप्र० →ई । “अनोऽस्य' (२११।१०८) अनोऽस्य लुक् ।।छ।। चतुस्त्रेयिनस्य वयसि ।।२।३।७४।। [चतुस्त्रेः] चत्वारश्च त्रयश्च = चतुस्त्रि, तस्मात् । [हायनस्य] हायन षष्ठी ङस् । [वयसि] वयस् सप्तमी ङि । [चतुर्हायणो वत्सः] चतुर-हायन । चत्वारि हायनानि यस्याऽसौ । हायनः साध्यते, 'ओहांक त्यागे' (११३१) हा । 'ओहां गतौ' (११३६) हा । जहाति जिहीते वा कालान्तरमिति हायनः । 'हः काल-व्रीयोः' (५।१।६८) टनणप्र०→अन । 'आत ऐः कृऔ' (४।३।५३) आ०→ऐ । 'एदेतोऽयाय' (११२।२३) आय् । 'वद व्यक्तायां वाचि' (९९८ ) वद् । वदति मातरं दृष्ट्वा । 'मा-वा-वद्यमि-कमि-हनि-मानि-कष्यशि-पचि-मुचि-यजि-वृ-तृभ्यः सः' (उणा० ५६४) सप्र० । 'अघोषे प्रथमोऽशिटः' (११३५०) द०→त० । प्रथमा सि । [चतुर्हायणी वडवा] चत्वारो हायना यस्याः सा | 'संख्यादेर्हायनाद् वयसि' (२।४।९) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । [त्रिहायणो वत्सः] त्रीणि हायनानि यस्याऽसौ । [त्रिहायणी वडवा] त्रीणि हायनानि यस्यां सा । [चतुर्हायना शाला] चत्वारि हायनानि यस्यां सा । [त्रिहायना शाला] त्रीणि हायनानि यस्यां सा । [सहस्रहायनः पुरुषः] सहसं हायना यस्याऽसौ । [लक्षहायनः पक्षी] लक्षं हायना यस्याऽसौ ।।छ।। वोत्तरपदान्तनस्यादेरयुव-पक्वा-ऽह्नः ।।२।३।७५।। [वा] वा प्रथमा सि । [उत्तरपदान्तनस्यादेः] उत्तरं च तत् पदं च = उत्तरपदं, उत्तरपदस्य अन्तः = उत्तरपदान्तः, सि(:) आदिर्यस्याऽसौ स्यादिः । उत्तरपदान्तश्च नश्च स्यादिश्च = उत्तरपदान्तनस्यादिस्तस्य । [अयुवपक्वाऽह्नः] युवा च पक्वश्च अहश्च = युवपक्वाऽहः, न युवपक्वाऽहः = अयुवपक्वाऽहः, तस्य । 'अनोऽस्य' (२।१।१०८) अलोपः । [वीहिवापिणौ, व्रीहिवापिनौ] व्रीहि 'डुवपी बीजसन्ताने' (९९५ ) वप् । व्रीहीन् वपत इत्येवंशीलौ । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । अनेन न० → ण० । [वीहिवापिणी, व्रीहिवापिनी कुले] व्रीहीन वपत इत्येवंशीले, ते । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । औ । 'औरीः' (१।४।५६) ई । [माषवापिणी, माषवापिनी कुले] माषान् वपत इत्येवंशीले, ते । 'अजातेः शीले' (५।११५४) णिन्प्र०→इन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy