________________
१०८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
क्षीरस्य पानम् । अनेन विकल्पे ण० ।
[कषायपाणः, कषायपानः कंसः] पीयतेऽनेनेति । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र०→अन । कषायस्य पानः ।।छ।।
देशे ।।२।३७०॥ [देशे] 'दिशीत् अतिसर्जने' (१३१८) दिश् । दिश्यते = देशः, तस्मिन् ।
[क्षीरपाणा उशीनराः] ‘वशक् कान्तौ' (११०१) वश् । उश्यते इति । 'स्थादिभ्यः कः' (५।३।८२) कप्र०→अ । 'वशेरयङि' (४1१1८३) वृत व० → उ० । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डीप्र० । उशी = नगरी, तस्या नराः । क्षीरं पानं येषां ते ।
[सुरापाणाः प्राच्याः] सुरा पानं येषां ते । प्रथमा जस् ।
[कषायपाणा गान्धारयः] कषायस्य पानं = कषायपानं, कषायपानं येषां ते । गन्ध 'ऋक गतौ' (११३५) ऋ । गन्धमियति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । गन्धारस्याऽपत्यं वृद्धम् । 'अत इञ्' (६।१।३१) इञ्प्र०→इ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । ग(गान्धारे राज्ञोऽपत्यानि । 'गान्धारि-साल्वेयाभ्याम्' (६।१११५) अप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुक् । प्रथमा जस् ।
[क्षीरपाना गोपालकाः] क्षीरस्य पानं येषां ते । गां दुहन्तीति क्विप ।।छ।।
ग्रामा-ऽग्रान्नियः ।।२।३।७१।। [ग्रामाऽग्रान्नियः] ग्रामश्च अग्रं च = ग्रामाऽग्रम्, तस्मात् । नी षष्ठी डस् → अस् ।
ननु किमर्थं सूत्रमिदम् - यतो ‘गतिकारक०' (न्यायसं० २।३१) इति न्यायात् समासे एकपदत्वात् 'रघुवर्णा०' (२।३।६३) इति णत्वं सिद्धमिति, उच्यते-नियमार्थं, यदि नियो णत्वं स्यात्तदा ग्रामाग्रादेव, तेन मेषनी-खरनीत्यादौ पूर्वेणापि न स्यात् ।
ग्रामणीः] ग्राम ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२०३९७) नी । ग्रामं नयतीति क्विप । 'क्विप' (५1१1१४८) क्विपप्र० । अनेन न० →ण० । [अग्रणीः] अग्रं नयतीति क्विप । अनेन न० →ण ।।छ।।
वाह्याद् वाहनस्य ।।२।३।७२।। इक्षुवाहणम] उहातेऽनेनेति । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र०→अन । वहनमेव वाहनम् । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण् । इक्षूणां वाहनम् । अनेन न०→ण० ।
[शरवाहणम्] शराणां वाहनम् । अनेन न०→ण० । [सुरवाहनम्] सुराणां वाहनं = सुरवाहनम् । संबन्धमात्रमत्र विवक्षितम् । [नरवाहनः] नरो वाहनमेषाम् । यौगिकोऽयं शब्दस्तेन ‘पूर्वपदस्था०' (२।३।६४) इति न णत्वम् ।।छ।।
अतोऽहुनस्य ।।२।३७३।। [पूर्वाह्णः] पूर्व-अहन् । पूर्वमनः । ‘सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽह्नाऽऽदेशश्च । [अपराह्णः] अपरमह्नः । 'सर्वां ऽश संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽह्नाऽऽदेशश्च । [निरहनः] निर्गतमहः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽनाऽऽदेशश्च । अनेन ण न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org